________________
यातिवादः।
१५९
भावच्छिन्नत्वेन विवक्षणीया(१) सर्वमन्यत् अत्यन्ताभावगर्भप्रथमलनगवदवसेयमिति संक्षेपः ।
ननु अत्यन्ताभावघटितद्वितीयलक्षणपक्षे व्यधिकरणधूमस्य वकित्वरूपेण व्यधिकरणवशिव्याप्यत्वं कथं स्यात् मामानाधिकरण्यविरहात् इत्यत आह, 'अन्येति, 'प्रतियोगित्वादिति, परस्परमामानाधिकरण्यविरहेणेति शेषः । यथाश्रुते नानाव्यक्तिमाध्यकानुरोधेनानवच्छेदकत्वपर्य्यन्तानुधावनस्यावश्यकत्वेन .तादृशप्रतियोगित्वस्थाकिञ्चित्करत्वात् (२), इत्थञ्च परस्परमामानाधिकरण्यविरह एव तस्य हेतुत्वात्। न चैवमन्यवृत्तिवरन्यवृत्तिधूमवनिष्ठात्यन्नाभावप्रतियोगिवादित्यस्यैव सम्यकया तदतोऽन्योन्याभावप्रतियोगित्वादिति व्यर्थमिति वाच्यं। अन्यवृत्तिवरन्यनिष्ठधूमवविष्ठात्यन्ताभावप्रतियोगित्वेऽपि द्रव्यस्थाव्याप्यवृत्तितानये सामानाधिकरण्यं सम्भवतीत्यनुशयेन तदुपादानादिति । न चैवमिति, 'न व्याप्तिः' नैका व्याप्तिरित्यर्थः, तथाच धूमत्वं व्याप्यतावच्छेदकं न स्यात् व्याप्तेः प्रतिधम(३) भिन्नत्वेन धूमत्वस्यातिप्रमकत्वादिति भावः। तथात्वेन' व्याण्याश्रयत्वेन, 'धूममात्रस्थति, तथाच व्याप्तेः प्रतिधूमं भेदेऽपि वहिव्याप्तित्वावचिन्त्रस्यानतिप्रसनत्वात् धूमवमवच्छेदकं, यथा प्रतियोगितायाः प्रतिव्यक्तिभिन्नत्वेऽपि तत्तदभावप्रतियोगितात्वावच्छिन्नस्थानतिप्रमतत्वात् घट
(१) साध्यतावच्छेदकतावच्छेदकसम्बन्धावचिनत्वेन विशेषणीयेति ख.
ग। (२) व्याप्यत्वाभावे पप्रयोजकवादित्यर्थः । (२) सर्वत्र 'प्रतिधूम' इत्यत्र प्रतिसमिति ख• ग०।