________________
१५ . नावचिकामी
अत्राधिकरणखांशस्थामतिप्रयोजनकतया तदपहाय लक्षणातरमार, 'स्वसमानाधिकरणेति, 'स्वपदं हेत्वभिमतपरं, यदकत्वमिति यवृत्तित्वमित्यर्थः, यस्य तस्य तड्याप्यत्वमिति मेषः । तथाच यत्र खरूपतो द्रव्यत्वादेः माध्यत्वं तत्र हेतुसमानाधिकरणौयान्योन्याभावत्वनिरूपितप्रतियोगितासामान्ये यनिष्ठपर्याप्तावच्छेदकताकत्वाभावस्तत्मामानाधिकरण्यं स्वरूपतस्तस्य व्याप्तिरिति वक्तव्यं, 'यत्पदं स्वरूपतः साध्यव्यक्तिपरं। किञ्चिदवच्छित्रसाध्यकस्थले तु तादृशप्रतियोगितामामान्ये यद्धर्मावच्छिचनिष्ठपर्याप्तावच्छेदकताकत्वाभावस्तविच्छिन्नमामानाधिकरण्यं तद्धविच्छिन्नस्य व्याप्तिरिति वक्रव्यं । ननु तथापि द्रव्यं पृथिवौत्वात् वहिमान् धूमादित्यादौ कालिकविशेषणत्व-समवायादिसम्बन्धेन साध्यवतोऽन्योन्याभावस्य हेत्वधिकरणे सत्त्वादसम्भवः । न च प्रतियोगिता माध्यतावच्छेदकमम्बन्धावच्छिन्नावच्छेदकताकत्वेनं विशेषणोया इति वाच्यं । घटवान् कालपरिमाणात् घटवामित्यज्ञानत्वादित्यादौ तादृशप्रतियोगित्वाप्रमिद्धेरिति चेत् । न । माध्यतावच्छेदकसम्बन्धावच्छिन्नत्वेनावच्छेदकताया विशेषणत्, केवलान्वयिनि वाचत्वादिपर्याप्तस्वरूपसम्बन्धावच्छिन्नावच्छेदकताकत्वं संयोगादिसम्बन्धेन वाचवादिमदत्यन्ताभावप्रतियोगितायामेव प्रसिद्धं। माध्यतावच्छेदकसम्बन्धभेदेन व्याप्त दात् यत्र तादात्म्यसम्बन्धेन किञ्चिदवच्छिन्नस्य माध्यत्वं तत्र तादृशान्योन्याभावत्वनिरूपितप्रतियोगितासामान्ये यार्थपर्याप्तावछेदकताकवाभावस्तद्धविच्छिन्नसामानाधिकरण्यं वक्तव्यं यद्धर्मपदं माध्यतावच्छेदकपरं । अवच्छेदकता च माध्यतावच्छेदकताघटकसम्ब