SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ व्याप्तिवादः। चातिरिक्रमामान्याभावानभ्युपगमे संशयविषयोऽभाव एव दुर्लभइति भावः । यद्यपि वायौ रूपं न वेति संशयं प्रति रूपाभावनिश्चयो न विरोधी किन्तु रूप तदभावान्यतरविशेष्यकाधेयतासम्बन्धावच्छिन्नवाय्वभावनिश्चय एव विरोधी, तथाप्यधिकरणे तसदभावान्यतरनिश्चयोऽपि तत्तदभावोभयविशेष्यकाधिकरणप्रकारकसंशयविरोधी इत्यभिप्रायः, वायुरूपवान् तदभाववान् वेति वायुविशेष्यकमंशय एव वास्य तात्पर्य । एतचापाततः विशेषाभावानां तत्तद्रूपत्वावच्छित्रप्रतियोगिताकाभावत्वेन निश्चितत्वेऽपि रूपत्वावच्छित्रप्रतियोगिताकाभावत्वप्रकारेण संशयविषयत्वसम्भवात् तेनापि रूपेण विशेषाभावानां निर्णये तथा संशयस्य सामान्याभावातिरिकत्ववादिनामप्यसिद्धत्वादिति ध्येयं । शेषमस्मत्कृतसिद्धान्नरहस्येऽनुसन्धेयं । इति श्रीमथुरानाथ-तर्कवागीशविरचिते तत्त्वचिन्तामणिरहस्ये अनुमानाख्यदितीयखण्डरहस्ये मामान्याभावरहस्यं ।
SR No.010560
Book TitleTattva Chintamani Anumankhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1982
Total Pages1002
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy