________________
याप्तिवादः।
জনালীসমাজুৰিস্থিলাগিয়ে বিনিলা। इत्वञ्च घटवान् कालपरिमाणदित्यादौ समवायादिसम्बन्धार छिमघटाद्यभावप्रतियोगितामादायैव प्रसिद्धिः। एतेन घटत्वाभाववान् पटवादित्यादावव्याप्तिः पंटत्व समानाधिकरणस्य गोत्वाभावादेर्घटवाभावनिष्ठप्रतियोगिताया घटत्वाभावत्वावच्छेद्यत्वात् अभावाधिकरणकाभावप्रतियोगिकाभावस्थाधिकरणस्वरूपानतिरेकितया गोवाभावादिनिष्टघटत्वाभावभेदस्य गोलाभावादिरूपत्वेन घटत्वाभावस्थापि गोवाभावादिप्रतियोगित्वात् तत्प्रतियोगिताव्यक्तः स्वावछेदकतादात्म्यसम्बन्धेन स्वावच्छेदकावच्छिनासम्बन्धित्वस्थापि हेतुसम्बन्धिनि सत्त्वाचेति प्राचां दूषणमप्यपास्तं। तत्प्रतियोगिताव्यत घटवाभावत्वाद्यवच्छेद्यत्वेऽपि माध्यतावच्छेदकसम्बन्धावच्छिन्नलाभावेनोभयाभाववत्त्वात् । अथैवमपि घटवान् नित्यज्ञानलात् इत्यादौ वृत्त्यनियामकविषयितादिसम्बन्धेन माध्यतायामव्याप्तिस्तादाम्यातिरिकत्यनियामकसम्बन्धमात्रस्वाभावप्रतियोगितानवच्छेदकान्वेनर) तत्र माध्यतावच्छेदकसम्बन्धावच्छिनत्वस्थाप्रसिद्धत्वात्। यदि च वृत्त्यनियामकविषयिदादिसम्बन्धस्थाभावप्रतियोगितानवच्छेदकत्वेऽपि घटत्वज्ञानाचित्यन्ताभावादेः प्रतियोगितावच्छेदकतावच्छेदकमस्येवेत्यभावप्रतियोगितावच्छेदकतायामेव तदवच्छिनत्वं प्रसिद्धमित्युचते, तदापि
१) तादात्म्यस्य कृत्यनियामकत्येऽपि.तत्मम्बन्धावच्छिमप्रतियोगित्वमवश्य
मभ्युपेयमन्यथा तादाम्यसम्बन्धावच्छिन्न प्रतियोगिताकाभाववनक्षमान्योन्याभावत्वस्थ दुर्वचत्वापत्तिरिति तात्पर्य्यम् ।