________________
तत्त्वचिन्तामणौ
णाय यथोक्तविवक्षाया . आवश्यकत्वे तत एवात्रायव्याप्तेनिरामात, खरूपतः पृथिवीत्व-जस्लवाद्यवच्छित्रप्रतियोगिताया द्रव्यत्वव्याप्यजातित्वविशिष्टपर्याप्तावच्छेदकताकत्वाभावात्। न चैवं विवक्षणे घ्राणग्राह्यगुणवान् पृथिवौत्वादित्यादौ लघुसमनियतगुरुरूपेण साध्यतायामव्याप्तिः स्वरूपसम्बन्धरूपावच्छेदकत्वस्य सम्भवति लघुधर्म गुरावभावेन प्राणग्राह्यगुणत्वनिष्ठावच्छेदकत्वाप्रसिद्धेः लाघवागन्धवस्यैव प्रतियोगितावच्छेदकत्वात्। अननिरिक्रवृत्तित्वरूपावच्छेदकत्वप्रवेशे सत्तावान् नाते रित्यादावव्याप्तिः विशिष्टमत्तात्वाद्यवच्छित्रप्रतियोगिताया अनतिरिक्रवृत्तित्वात् सत्तावादेरिति वाच्यं । लघुसमनियतगुरुधर्मेण साध्यतायामलक्ष्यत्वात्(१)। अतएव गुरुधर्मो न कारणतावच्छेदकः तन्निष्ठपर्याप्तावच्छेदकत्वाप्रमिड्या तेन रूपेण व्यापकत्वविरहात् यथोक्रव्यापकतायश्च कारणताघटकत्वात् । अन्यथा गुरुधर्मणपि - व्यापकत्वे कार्याव्यवहितपूर्वत्वव्यापकतावच्छेदकान्यथासियनिरूपकधर्मस्यैव कारणतावच्छेदकतया गुरुधर्मस्यापि कारणतावच्छेदकत्वापत्तेः। गुरुधर्मस्य कारणतानवच्छेदकत्वन्तु तहटितव्यापकत्वस्य गौरवेण कारणतापदार्थत्वविरहात् ।।
वस्तुतस्तु लघुसमनियतगुरुधर्मस्य शक्यताद्यनवच्छेदकत्वेऽपि कम्युपौवादिमात्रास्तोत्याद्यबाधितप्रतोतेः प्रतियोगिताया अवरकत्वमस्येव, न हि तत्प्रतौतेस्तत्प्रतियोगिकाभावमात्र विषयः, तथाविध
(५) मधुसमनियतगुरुधावच्छिन्न विधेयकानुमितित गधुधावच्छिने
व्यापकत्वज्ञानादेव भवतीत्यभिप्रायेणैतदुक्तमिति ।