________________
वैशेषिकसूत्रबृतौ १६६. यत्नाभावे प्रसुप्तस्य चलनम् ॥ १३ ॥
तथेत्यनुषज्य तादृशमित्यर्थों वाच्यः। पुरुषप्रयत्नाभावे सति सुषुप्तस्य पुरुषस्य चलनं यद् भवति तद् दावानलदह्यमानवेण विस्फोटनवत् प्रयत्नेतरकारणकं द्रष्टव्यमित्यर्थः । जाग्रहशायां प्रयत्नानवीनं शारीरं कर्म पूर्वमुक्तम् । अथ स्वापावस्थायामुच्यते। आहारपरिणामप्रयुक्ततेजोवायुसंयोगविशेषाधीन मिदं चलनमिति भावः ।
१६७. तृणे कर्म वायुसंयोगात् ॥ १४ ॥
सर्वथा पुरुषसंयोगरहिते, मार्ग प्ररूढे तृणे यच्चलनं तद् वायुसंयोगादिति असन्दिग्धमेतत् । तद्वदेव प्रसुप्तचलनमपि पुरुषप्रयत्नेतरकिञ्चित्कारणकम् ।
१९८. मणिामनं सूच्यभिसर्पमित्वदृष्ट कारणकम ॥ १५ ॥
स्तेन निर्धारणार्थं विसष्टो मरिणः यत स्तेनमभिगच्छति, सूची यत् अयस्कान्तमभिसर्पति, यच्च एतादृशमन्यत् कर्म तत् सर्व अदृष्टकारणकम् । न दृष्टं प्रत्यक्षेरण वानुमानेन वाजवगतं कारणं यस्य तत् । अस्ति कारणम् । तत्तु इदमिति विशिष्य वक्त न शक्यत इति भावः । एतेन दृष्टकारणादृष्टकारणभेदात् कर्म द्विविधा- त्यपि विभागवदिति ज्ञापितम् ।
१६६. इषावयुगप्रत्संयोगविशेषाः कर्मान्यत्वे हेतुः ॥ १६ ॥
धनुषि सन्धाय मुक्त इषौ यावल्लक्ष्यप्राप्ति एकमेब कर्मेति न मन्तव्यम् । भिन्नभिन्नमने कं कर्म तत्र भवति । कोऽत्र हेतुः । किं तत्र लिङ्गम् । किं प्रमाणमिति यावत् । अयुगपत्संयोगविशेषः । संयोगानां विशेषाः भिन्नभिन्ना व्यक्तयः। ते च अयुगपत् न एककालमाविनः अपितु क्रमभाविनः । प्रथमं दिग्विशेषावच्छिन्नाकाशसंयोगो जायते । तेन तज्जनकं कर्म नश्यति । अनन्तरं अन्यः संयोगोऽपरदिग्विशेषावच्छिन्नाकाशेन । तेन तज्जनकं कर्म नश्यति । एवमुत्तरोत्तरसंयोगनाश्यत्वात् तत्तज्जनकस्य कर्मणः न एक कर्म प्रान्तमनुवर्तते । अपितु यावन्तः संयोगाः तज्जनकानि तन्नाश्यानि च कर्माणि तावन्ति भवन्तीत्यर्थः। २००. नोदनादाद्यमिषोः कर्म तत्कर्मकारिताच्च संस्कारादुत्तरं
तथोत्तरमुत्तरं च ।। १७ ।।। यदि प्रथममुत्पन्नं कर्म तज्जन्यसंयोगानश्यति तहि अनन्तरं कुतो जायत इत्यत्राह । नोदनादाद्यमिषोः कति ज्ञातमेतत् । तेन प्राद्यन कर्मणा उत्तरदेशसंयोगवत वेगाख्यः संस्कारोऽपि कार्यते उत्पाद्यते । तस्माच्च संस्कारात् उत्तरं द्वितीयं कर्म जायते । तथा तेनैव प्रकारेण उत्तरमुन्नरं च सर्व कर्म जायत इति कर्मानेकत्वमुपपन्नम ।