________________
पञ्चमाध्याये प्रयममाह्निकम् वेगे सति कर्म भवतीति वेगस्य गमनाख्यकर्म प्रति कारणत्वेऽन्वय उक्तः । अथ व्यतिरेकमाह
२०१. संस्काराभावे गुरुत्वात्पतनम् ॥ १८ ॥
लक्ष्याभिधातेन वा नोदनमान्यन वेगस्य मध्य एव शान्तौ वा उपरि गमनं न भवति । किन्तु पूर्वोक्तरीत्या गुरुत्वहेतुकं पतनमेव । अतो वेगः उत्तरोत्तरगमनं प्रति कारणमिति।
इति वैशेषिकसूत्रवृत्ती सुगमायां पञ्चमाध्याये प्रथममाह्निकम्