________________
पञ्चमाध्याये द्विनीयमाह्निकम्
७६ २०७. नोदनापीडनात, संयुक्तसंयोगाच्च ॥ ६ ॥
अपामारोहणमित्यनुषज्यते । नोदनापीडनादिति समाहारः । श्रोत्रियाणामयंजलं यध्वं गच्छति तन्नोदनात् । शिलातले पतितं तोयं यदुद्गच्छति तदापीडनात् अभिघातात् । गच्छता पुरुषेण शिरसि धृतात् कुम्भात् यदाप उच्चलन्ति तत् संयुक्तसंयोगात् ।
२०८. वृक्षाभिसर्पणमित्यदृष्टकारितम् ॥ ७॥
भूमिष्ठा आपः यद् वृक्षमारुह्य सर्वत्र व्याप्नुवन्ति फलानामन्तश्च प्रविश्य तिष्ठन्ति एतदादिकं अपां कर्म अदृष्टकारितम् । प्रापः कुर्वन्ति । अदृष्टं कारणं ताः कारयति ।
पार्थिवीनामपां कर्मणः कारणमुक्तम् । अथ दिव्यानामुच्यते२०६. अपां सजातो विलयनं च तेजःसंयोगात ॥८॥
सङ्घातः संहननरूपं कर्म । अवयवानां काठिन्यापरपर्याय निविडसंयोगानुकुलो व्यापारः हननम् । द्रवत्वप्रत्यापत्यनुकूलो व्यापारः विलयनम् । संहता आपः करका भवन्ति । एवं करकावस्थाप्राप्तिः पुनद्रवीभावश्च तेजःसंयोगात् । कश्चन तेजःसंयोगः सङ्घातहेतुर्भवति । ततो विलक्षणः कश्चन तेजःसंयोगो विलयनहेतुर्भवति ।
ननु दिव्यास्वप्सु तेजःसंयोगोऽस्तीति कथं ज्ञायत इत्यत्राह२१०. तत्र विस्फूर्जलिङ्गम ।।६।।
तत्र दिव्यानामपां तेजःसंयोगसत्त्वे विस्फूर्जथु: अशनिपातः लिङ्गप्रमाणम् । अशनिर्हि तेजोमयः । वृक्षादिदाहात् । सः मेघानिर्गत्य पतन् मेघस्थानां अपां अस्ति तेजःसंयोग इति गमयति ।।
२११. वैदिकं च ॥ १० ॥
तत्र लिङ्गमित्यनुषज्यते । “चतुष्टय्यो वा आपः । मेघो विद्युत् । स्तनयित्नुवृष्टिः ।" इति श्रूयते विद्युत् तेज एवेति । ननु मेघेषु विद्युत् प्रत्यक्षदृष्टव । तत्र किं वेदोदाहरणेन । सत्यम् । परन्तु अद्भिः संयोगवत्तया सा न दृश्यते । वेदे तु अस्त्वकीर्तनात् संयोगमूलोऽयं तेजोद्रव्यस्य प्रप्त्वव्यपदेश इति गम्यते । अतो युक्त वैदिकं लिङ्गमिति ।
मेघात् अशनिपाते हेतुमाह२१२. अपां संयोगाद् विभागाच्च स्तनयित्नोः ॥ ११॥
स्तनयित्नोः मेघस्य सम्बन्धिन्यः या आपः तासां मिथः गाढसंयोगात संयुक्ताना विभागाच्च विस्फूर्जथुर्भवतीति योजना।