________________
वैशेषिकसूत्रवृत्ती वन्तश्चेतनाः सन्तीति तस्य सूत्रस्यार्थः । नियतौ दिग्देशौ पूर्वी कारणतया पूर्ववर्तिनी यस्य तत् नियतदिग्देशपूर्वकम् । तत्त्वाभावात् । शरीरोत्यत्तेरिति शेषः । प्राचीप्रभृतयो दश दिशः । तत्र स्वर्गभूपाताललोकादयो देशाः । शरीरेऽपि उदरं वा कर्णों वा मुखं वा ऊरुर्वा पादो वेति देशाः । एतेषु दिग्देशेषु अत्रैव शरीरमुत्पद्यते नान्योति नियमो नास्ति । अस्मिन् लोके शरीरगर्भात् शरीरमुत्पद्यत इति पश्यामः । इदं दर्शनं शरीरगर्भात् शरीरमुत्पद्यत इत्या प्रमाणम् । न त्वन्यत्र नोत्पद्यत इत्यत्र । गोमयाद्धृश्चिकादिशरीरस्य, तण्डुलादिभ्यः क्रिमिशरीरस्य च उत्पत्तिदर्शनात् । न च मनुष्यशरीरमन्यत्र नोत्पद्यत इति नियमः । अस्माकमिदानीमदर्शनमात्रेण तथा नियमासिद्धेः । न च तत्रानुमानमागमो वा प्रमाणमस्ति ॥
इत्थमयोनिजपुरुषशरीरसत्त्वे बाधकप्रमाणं नास्तीत्युक्तम् । अथ साधक प्रमाणान्याह
१७६. धर्मविशेषाच्च ॥ ७ ॥
सर्वफलसाधनं हि धर्मः । गर्भवासं विनव शरीरपरिग्रहानुकूलो धर्मों यदि कस्यचित् भवति तसा तथा तत्प्राप्ती को विघातः। श्रूयन्ते च तथा शरीरभाजः सीताद्रौपदीसरोमुनिप्रभृतयः॥
१८०. समाख्याभावाच्च ।। ८॥
पद्मभवः, ऊरूद्भवा, हिरण्यगर्माङ्गभूः इत्यादि समाख्यासत्त्वाच्च । अन्वर्था हि इमाः समाख्याः न साङ्केतिक्यः केवलम् ॥
१८१. संज्ञाया प्रादित्वात ॥६॥
प्रलयावसाने तस्मिन् तस्मिन् पदार्थे उत्पन्ने अस्य इयं संज्ञा, अनेन शब्देन अयमर्थोऽभिधेयः, इति संज्ञा कैश्चित् कृता । तत्र यः प्रथमः पुरुष उत्पन्नः तस्य पुरुष इति संज्ञा, या प्रथमा स्त्री उत्पन्ना तस्याः स्त्रीति संज्ञा, तेन तस्यां यो जातः तस्य पुत्र इति संज्ञां च ये अकुर्वन् तेषां यानि शरीराणि तानि पुरुषादिसंज्ञायाः पुरुषादिसंज्ञापेक्षया आदित्वात् पूर्वमावित्वात् अयोनिजान्येव भवन्ति । उक्तविविधसंज्ञायाः