________________
चतुर्थाध्याये द्वितीयमाह्निकम् कमिदम् । त्रिभिरारब्धमित्यर्थः । इदमपि मतं न सम्यक् कुतः । गुणान्तराप्रादुर्भावात् । यदि भूतत्रयपरमाणुभिः परस्परसंयुक्तः शरीरात्मकं अवयविद्रव्यमुत्पाद्यते तर्हि ये तेषां व्यवस्थिता गुणाः ते तथैव शरीरवर्तिपार्थिवाद्यंशेषु नोपलभ्येरन् । उपलभ्यन्ते च । न तु विलक्षणं गुणान्तरं किमपि प्रादुर्भूतं दृश्यते । गन्धोऽनुष्णाशीतस्पर्शञ्च पार्थिवांशे । शीतस्पर्शो जलांशे । उष्णस्पर्शः तेजोंऽशे । अवयविनि एकस्मिन् विरुद्धा इमे गुणा न खलु समवेयुः। न च गुणान्तरं एतेभ्यो व्यतिरिक्त किमप्युपलभ्यते । अतो न त्र्यात्मकमिति ॥
यद्येवं एकभूतारब्धे शरीरे भूतान्तरोपलम्भः कथमित्यत्राह१७६. अणुसंयोगस्त्वप्रतिषिद्धः ॥ ४॥
शरीरारम्भकाणां एकभूतपरमाणूनां भूतान्तरपरमाणुभिः संयोगस्तु अप्रतिषिद्धः नास्माभिः प्रतिषिध्यते । नानुपपन्न इति भावः । पार्थिवशरीरारम्भकाः पृथिवीपरमाणवः जलपरमाणुभिः तेजःपरमाणु भिश्चः संयुक्ता वर्तन्ते । ते यदा शरीरमारमन्ते तदा जलपरमाणवः जलात्मकमवयविनं तेजःपरमाणवः तेजोमय. मवयविनं च आरभन्ते । अनयोरवयबिनोः पार्थिवशरीरात्मकेनावयविना संयोगो भवति । तेन हेतुना तत्र जलतेजोल्पभूतान्त रोपलब्धिः । एवं जलतेजोमयशरीरयोरपि द्रष्टव्यम् । एवं भूतान्तरोपलम्भस्योपपन्नत्वात् एकभूतपरमाण्वारब्धे शरीरे भूतान्तरपरमाणनां नारम्भकत्वमिति सर्वशरीरं एकभूतात्मकमेव ।।
एवं शरीरस्वरूपं निरूप्य तद् विभजते१७७. तत्र शरीरं द्विविधं योनिजमयोनिजं च ॥५॥
योनिज गर्ने स्थित्वा उत्पन्नम् । अन्यदयोनिजम् । योनिजं प्रत्यक्षसिद्ध निर्विवादम् । अयोनिजे विप्रतिपत्तिः स्यात् । अतस्तत्साधयन् हेतूनाह
१७८. अनियतदिग्देशपूर्वकत्वात ॥६॥ एतदादीनां हेतूनां उत्तरत्र "सन्त्ययोनिजा" इत्यत्रान्वयः । अयोनिजशरीर