________________
अथ चतुर्थाध्याये
द्वितीयमाह्निकम् । पृथिव्यादिचतुष्टयं पुनः प्रकारान्तरेण विभज्य किञ्चिदाह - १७३. तत् पुनः पृथिव्यादिकार्यद्रव्यं त्रिविधं शरोरेन्द्रियविषय
संज्ञकम् ॥ १॥ तत् पूर्व "तस्य कार्य लिङ्ग” इति सूत्रे निर्दिष्टं पृथिव्यादिचतुर्द्रव्यरूपं कायद्रव्यं त्रिविधं शरीरेन्द्रियविषयनामकम् । शरीरेन्द्रियविषयभेदात् इति यावत् ।।
तत्र शरीरविषये मतान्तरं निरस्यति१७४. प्रत्यक्षाप्रत्यक्षाणां संयोगस्याप्रत्यक्षत्वात पञ्चात्मकं न
विद्यते ॥२॥ शरीरं पृथिव्या जलेन तेजसा वायुना वा एकेनैव भूतेन आरब्धमिति सिद्धान्तः । तत्र ये “पञ्चभिर्मूर्तरारब्धम् । अतएव पञ्चात्मकम्,' इति वदन्ति, तेषां निरसनमिह क्रियते । तत्र वाय्वाकाशी इतरैः त्रिभिः संयुक्तो शरीरमारमेते इति तावन्न युक्तम् । अप्रत्यक्षौ हि तो। इतराणि त्रीणि प्रत्यक्षाणि । प्रत्यक्षाप्रत्यक्षद्रव्यसंयोगो न प्रत्यक्षः। न हि घटाकाशसंयोगः प्रत्यक्षो भवति । तथा च वाय्वाकाशाभ्यां संयोगस्य पृथिव्यादिषु त्रिषु अप्रत्यक्षत्वात् पृथिव्यादिभिरारब्धे शरीरे वाय्वाकाशावपि तदारम्भकतया स्थिताविति कथं ज्ञायते ? वाय्वाकाशयोरप्रत्यक्षत्वात् साक्षात्प्रत्यक्षेण तयोरारम्मकत्वं न ज्ञायते । तत्संयोगस्याप्यप्रत्यक्षत्वात् तद्वारेणाऽपि न ज्ञायते। अतः प्रमाणाभावात् तयोः शरीरारम्भकत्वं नास्ति इति न पञ्चात्मकं शरीरमिति भावः ॥
अन्यदपि मतं निरस्यति
१७५. गुणान्तराप्रादुर्भावाच्च न च्यात्मकम ॥ ३ ॥
अप्रत्यक्षौ वाय्वाकाशौ विहाय पृथिवीजलतेजोभिः प्रत्यक्षः त्रिभिर्भूतैरारब्धमिदं शरीरम् । त्रीणींमानि प्रत्यक्षान्येव । तथा तेषां संयोगोऽपि । तस्मात् श्यात्म