SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ चतुर्थाध्याये द्वितीयमाह्निकम् कारणत्वादिति वा॥ १८२. सन्त्ययोनिजाः ॥ १० ॥ अयोनिजशरीरवन्तः विशिष्टाश्चेतनाः सन्तीत्येतत्सूत्रार्थ उक्तः । इत्थमयोनिजं शरीरं युक्तया साधितम् । तत्रेयं चरमा युक्तिरिति केनचित्प्रकारेण व्यञ्जयितुमिच्छन् सूत्रकारः पूर्वसूत्रे चकारं न प्रायुङ्क्तति विभाव्यम् ॥ १८३. वेदलिङ्गाच्च ॥ ११॥ "प्रजापतिः प्रजा असृजत" इत्याह श्रुतिः । तत्र सङ्कल्पादेव सृष्टिरभिप्रेता, न मिथुनीभावेन । सङ्कल्पजा च सृष्टिरयोनिजव । वेदे स्थितात् वेदवाक्यरूपत्वाद्वा उक्तविधात् लिङ्गाच्च सन्त्ययोनिजा इत्यर्थः । यद्यपि वेदलिङ्ग न स्यात् तथापि सिद्धय देव अयोनिजं शरीरमिति ज्ञापनार्थ पूर्व प्रतिज्ञां पूरयित्वा पश्चात् लिङ्गोक्तिः । शरीरं निरूपितम् । पञ्चेन्द्रियाणि प्रसिद्धानि । विषयाश्च भोग्यपदार्था निरूपिताः प्रसिद्धाश्च । अत एषां निरूपणं न क्रियते । इति वैशेषिकसूत्रवृत्ती सुगमायां चतुर्थाध्याये द्वितीयमाह्निकम् ॥
SR No.010559
Book TitleSugama Vaisheshika Sutra Vrutti
Original Sutra AuthorN/A
AuthorRanganathacharya
PublisherGanganath Jha Kendriya Sanskrit Vidyapitham Prayag
Publication Year1979
Total Pages154
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy