________________
१२६]
वैशेषिकसूत्रवृत्तिः ३६३. सति च कार्यादर्शनात् ॥ ५ ॥
पूर्व कारणाभिधानात् तत्कार्यतया प्रतीते सुखदुःखे एवात्र कार्यपदेनाभिघीयेते । कस्मिन् सतीत्यपेक्षायां च कार्यप्रतिसम्बन्धितयोपस्थितेः कारणे सतीति लभ्यते । तथा च कारणे सत्यपि कार्ययोः सुखदुःखयोरदर्शनादिति सूत्रार्थः सम्पद्यते । अयं हेतुः। का प्रतिज्ञेति चिन्तायां हेतुस्वरूपपर्यालोचनया "शरीरं न सुखदुःखयोराश्रयः” इति गम्यते । तेन "सुखदुःखे किमात्मगुणौ उत शरीरगणो" इति संशयोऽपि व्यञ्जितः । सुप्तस्य शरीरे चन्दनोक्षणेन सुखं न जायते । पिपीलिकादिदंशेन दुःखमपि न जायते । अतो न तो शरीरगुणौ।
३६४. एकार्थसमवायिकारणान्तरेषु दृष्टत्वात् ॥ ६ ॥
तस्यैव प्रबुद्धस्य ताभ्याँ हेतुभ्यां सुखदुःखे जायेते । तथा च यो ज्ञाता तस्यैव ते इति निश्चिनुमः । तयोः प्रात्मवर्तिनोः एकस्मिन् तस्मिन्नात्मरूपे अर्थे पदार्थे समवायेन वर्तमानं ज्ञानं कारणं भवति । एवं च तस्य कारणस्य पालोचनया तत्कार्ये सुखदुःखे आत्मसमवेते इति निश्चीयते । पुत्रजननादिश्रवणेन अर्थनाशादिश्रवणेन च जायमानी हर्षविषादौ श्रोतुः आत्मन एव भवितुमर्हतः । पूर्वसूत्रे शरीरावृत्तित्वे हेतुरुक्तः । अत्र तु आत्मवृत्तित्वे । ३६५. एकदेश इत्येकस्मिन् शिरः पृष्ठमुदरं मर्माणि तद्विशेषाद्व
शेषेभ्यः ॥ ७॥ ननु यदि सुखदुःखे आत्मगुणौ तहिं कयं “पादे मे वेदना शिरसि मे वेदना'' इत्यनुभव इति चेदत्राह । एकस्मिन् शरीरे एकदेश इति शिर आदीन्युच्यन्ते । मर्माणि गुह्यस्थानानि । ततः किमिति चेत् तद्विशेषेभ्यः तेषां एकदेशानां तत्सम्बन्धिभिः, तेषु जातः विशेषैः छेदभेददाहकण्टकवेधादिभिः, तद्विशेषः दुःखस्य विशेषः 'पादे वेदना, शिरसि वेदना' इत्यादि विभिन्नव्यवहारविषयत्वं भवति । आत्मनाऽनुभूयमानाया वेदनायाः अवच्छेदकप्रदेशा इमे । न त्वनेन व्यवहारेण एकदेशानां वा एकदेशिनः शरीरस्य वा वेदनाश्रयत्वं भवति । प्रबलैर्हेतुभिस्तन्निरासादिति भावः।
सुखदुःखे प्रति विशिष्य वक्तव्यमुक्तम् । इच्छाद्वेषप्रयत्नाः पूर्व षष्ठे उक्ताः । तेषु वक्तव्याभावादिहोपेक्षा ।
वशमेऽध्याये प्रथममाह्निकम् ॥