________________
अथ दशमाध्याये प्रथममाह्निकम् । ३५६. इष्टानिष्टकारण विशेषाद् विरोधाच्च मिथः ॥ १॥
बुद्धिनिरूपणं वृत्तम् । सुखदुःखे निरूप्येते । सुख दुःखं च मिथो मिन्नम् । कारणयोः विशेषात् भेदात् । चन्दनस्पर्शादि इष्टं सुखकारणम् । अग्निस्पर्शादि अनिष्टं दुःखकारणमिति । ननु सुखदुःखभेदः सुप्रसिद्धः । किञ्च सुखदुःखभेदादेव तत्साधनयोः इष्टत्वानिष्टत्वकृतो भेदो भवति । तत्कथं विपरीतमुच्यत इति चेन्न । केवित् अल्पत्वास्थिरत्वादिभिः सुखमपि दुःखमेवाहुंः । तदोपचारिकम् । न तु सुखमेव नास्तीति मन्तव्यमिति प्रतिबोधनाय भेदाभिधानात् । अभ्यासवशात् चन्दनाग्निस्प
र्शादिकं लोके स्वत एवेष्टानिष्टवत् व्यवहरन्तीति तथात्वोक्त श्च । अर्थान्तरभावः भेदः।
३६०. संशयनिर्णयान्तराभावश्च ज्ञानान्तरत्वे हेतुः॥ २॥
संशयनिर्णयरूपे ये अन्तरे ज्ञानभदौ तयोरभावः सूखदुःखयोः ज्ञानान्तरत्वे ज्ञानाद् भिन्नत्वे हेतुः ज्ञापकः । केचित् सुखं दुःखं च ज्ञानमेवेति मन्यन्ते । तन्नेत्याह । ज्ञानं द्विविध संशयो निर्णयश्चेति ज्ञानस्य विभागे न तृतीयः प्रकारोऽस्ति । अतः सुखं दुःखं वा यदि ज्ञानरूपं स्यात् तहि सुखे दुःखे वा वर्तमाने तस्य सविपयत्वात् कोटिद्वयं वा एक एव विषयो वा तत्र भायात् । तथा च तदा संशयो वा निर्णयो वा अस्तीति स्यात् । न चास्तीति शक्यं वक्त म् । उपलम्भाभावात् । अतः सुखे दुःखे वा वर्तमाने संशयो निर्णयो वाऽस्तीति दुवंचत्वेन तदभावात् वर्तमाने सुखदुःखे न ज्ञानरूपे इति तदन्यत्वं सिद्धम् ॥
३६१. तयोनिष्पत्तिः प्रत्यक्षलैङ्गिकाभ्याम् ॥ ३ ॥
सुखदुःखयोरुत्पत्त्तिः प्रत्यक्षात् अनुमितेश्च । चन्दनस्पर्शप्रत्यक्षात् पुत्रजन्मश्रवणाच्च सुखम् । कण्टकस्पर्शप्रत्यक्षात् प्रियविश्लेषश्रवणाच्च दुःखम् ॥
३६२. अभूदित्यपि ॥ ४॥
अभूदिति स्मरणादपि तयोनिष्पत्तिर्भवति । अत्र मे भगवद्दर्शनमभूदिति स्मरणात् सुखम् । अत्र मे शिशोः सर्पदंशोऽभूदिति स्मरणाद् दुःखम् ।