________________
अथ दशमेऽध्याये द्वितीयमाह्निकम् ॥
[१२७ अथ दशमेऽध्याये द्वितीयमाह्निकम् ३६६. कारणमिति द्रव्ये कार्यसमवायात् ॥१॥
द्रव्ये कारणमिति व्यवहारो भवति । कुतः कार्यस्य तस्मिन् समवायात् समवायसम्बन्धेन उत्पत्तेः। द्रव्यं तादृशं कारणं भवति यत्र कार्यमुत्पद्यमान समवायसम्बन्धेन वर्तते, यथा तन्तुषु पटः, घटे रूपादिकञ्च । एतेन समवायिकारणं नाम किञ्चित् कारणमस्तीति बोधितं भवति ।
३६७. संयोगाद्वा ॥२॥
कार्यसंयोगाद्वा द्रव्ये कारणमिति व्यवहारो भवति । यथा चक्रे उत्पद्यमानो घटः संयोगेन तत्र वर्तते । कुलालेन संयुक्तो भवति । एवं कार्यं यत्र संयोगि भवति तत् कारणं निमित्तकारणमुच्यते । परम्परया संयोगी दण्डोऽपि निमित्तकारणम् ।।
३६८. कारणे समवायात् कर्मणि ॥३॥
कर्मणि कारणमिति व्यवहारः कारणे समवायात् कार्यसमवायिकारणे समवायात् । द्रव्ये समवेतं कर्म तस्मिन् द्रव्ये संयोगविभागो वेगञ्च जनयति । तस्मात् कर्म कारणम् । इदमसमवायिकारणमुच्यते ॥
३६६. तथा रूपे कारणकार्थसमवायाच्च ॥४॥
रूप इति गुणोपलक्षणम् । तथा गुणे । गुणेऽपि कारणे समवायात् कारणव्यवहारो भवति । यथा पतति द्रव्ये पाद्यपतनसमवायिकारणे समवायात् गुरुत्वं आद्यपतनं प्रति कारणं भवति । एवं द्रवत्वं आद्यस्पन्दनसमवायिकारणे जले समवायात् तत्प्रति कारणं भवति । रूपादिर्गुणस्तु कारणकार्थसमवायाच्च कारणम् । पटरूपस्य समवायिकारणं पटः । तेन सह एकस्मिन्नर्थे वस्तुनि तन्तौ समवायः तन्तुरूपस्य । तेन तन्तुरूपं पटरूपस्य कारणम् । इदमप्यसमवायि कारणम् ।
३७०. कारणसमवायात् संयोगः पटस्य ॥ ५॥
पटसमवायिकारणेषु तन्तुषु समवायात् संयोगः पटस्य कारणम् । संयोगस्य मुणस्य असमवायिकारणत्वमिदमुक्त उत्तरत्र विशेषविवक्षया ।