________________
१३०
श्रीमद्वल्लभाचार्य एतत्कृतं महेन्द्रेण महभङ्गविरोधिना । तदेतदखिलं गोष्ठं नातव्यमधुना मया ॥१२॥ इसमद्रिमहं वीर्यादुत्पाट्योरुशिलातलम् । धारयिष्यामि गोष्ठस्य पृथुछन्नमिवोपरि ॥१३॥ इति कृत्वा मतिं कृष्णो गोवर्धनमहीधरम् । उत्पास्यैककरेणैव धारयामासलीलया ॥ १४ ॥ गोपांचाह जगन्नाथः समुत्पाटितभूधरः। विशध्वमत्र सहिताः कृतं वर्षानिवारणम् ॥१६॥ सुनिर्वातेषु देशेषु यथायोग्यमिहास्यताम् । प्रविश्यनात्र भेतव्यं गिरिपातस्य निर्भयैः॥१६॥ इत्युक्तास्तेन ते गोपा विविशुर्गोधनैः सह-इत्यादि ।