________________
आरपारादि
श्रीसूत्रकताङ्गचूर्णिः ॥ ६९॥
वयं स्वतः विरता, विरताः अपापकर्माणः, अथवा अपि संभावने, तीर्गा अपि गृहादिसंग्रंथं केवलं भापते, न तु कुर्वन्ति, स एवं भापमाणः पाखंडी पाखंडगणो वा, अणेगेसु च एकादेशो भवत्येव 'णाहिसि आरं कतो परं' ज्ञास्यति आरं-गृहस्थत्वं परंप्रवज्या, किमुक्तं भवति-न त्वं जानी, कैः-किर्मभिः गृही भवति प्रवजितो वा, अजानन् कथं कुशलानि वेत्स्यसि', अथवा आरमित्ययं लोकः परस्तु परलोकः, अयं सौत्रोऽर्थः-आर:-संसारः परो-मोक्षः, तदिति आरं पारं वा न ज्ञास्यति, कुतः?-कुमा
श्रियात् , अथवा 'णणाहिसि' ति न जानिष्यसि मोक्षमात्मानं परं वा, तत्रात्मा आरं परं पर एव, अथवा णाहिसि गिही ण पन्च| इओ, आरो पव्वइओ, आरो गृही परः प्रबजितः, वेहासं नाम अंतरालं, न गृहित्वे नापि श्रामण्ये, अंतराले वर्त्तते, ते हि आहारादिषु | सक्ता इह परत्र च तीवमेव तदुपचितैः कर्मभिः कृत्यन्ते, कामजनितरित्यर्थः, आह-एते तावदवितीर्णत्वात् मा भवनिर्वाणाय, | अथ ये इमे उइंडिकाः चूर्णिकादयश्च एते कथ न तन्निर्वाणाय ?, उच्यते, "जइवि णिगिणे किसे चरे" वृत्तं ।।१७।। यदित्य| भ्युपगमे णिगिणो नाम नग्नः, कृशस्तपोभिनिष्टप्तत्वाद् आतापनादिभिः, मासो संख्यातप्रतिभाग इतिकृत्वा मासस्य अंते सकद्भुक्तं इति मासान्तशः 'चउत्थछट्ठमदसमदुवालसमेहि स एवं निष्टप्तशरीरोवि 'जे इह मायादि मिजति' अणिद्दिवणिद्देसा माया आदिर्येषां कपायाणां, आदीयत इत्यादिः, माङ् माने, 'कथं ?, मीयते, पूर्यत इत्यर्थः, मायादीनां कषायाणां योजनं, अथवा मीयत इति-यथा धान्यस्य कुडो मीयते एवं मायादिभिः कपायैः स मीयते, पूर्यत इत्यर्थः, स एवं कपायाणामाकंठं मितः मरणमितो 'आगंता गम्भादणंतसो' आगमिष्यतीति आगंता, गर्भः आदिर्यस्य संसारक्रमस्य भवति स गर्भादिः, तद्यथागर्भप्रसवबाल्यकौमारयौवनमध्यमस्थाविर्यमरणनरकदुःखान्त इति, उत्तीर्णस्य च नरकात् स एव ध्रुवः, पुनः स एव क्रम इति,