________________
श्रीसूत्रकवाङ्गचूर्णिः
॥ ६७ ॥
गृह्यते, पितृभ्य इति पितृग्रामः, लुप्यत इति छिद्यते तेषु जीवात्, स्वयं कदाचित् पूव्वतरं म्रियते, न च सैव माताऽन्यत्रापि भवति पिता वा, अथैकेन्द्रियादिषु प्रक्षिप्तः नैव मातापितृसंबंधं लभते, न वा सुगतिः प्रेत्य सुलभा भवति, सुगतिर्नाम सुकुलं, प्रेत्य योनिस्थितिरेव, नागार्जुनीयास्तु पढंति 'माता पितरो य भायरो विलमेजसु केण पच्चए' नारकदेवै केन्द्रियासंज्ञिषु च यतश्चैवं | तेण एताणि भयाणि वेहिया एतानि यान्युक्तानि - णो हूवणमंति राइओ, पेक्खिया - देहिया पस्सिया, आरंभो नाम असंयमः अनुक्तमपि ज्ञायते, परिग्रहाच, कथं १, आरंभपूर्वको परीग्रहः, स च निरारंभस्य न भवती ततः आरंभग्रहणं, स्यादारंभादनिवृत्तस्य को दोपः १, उच्यते, 'जमिणं जगति पुढो जगा' वृत्तं ॥ ९२ ॥ 'यदि'ति यस्मात्कारणात् अस्मिन् जगति, पुढो नाम पृथक्, कम्मेहिंति यथाकर्म्मभिः लुप्यंति नरकादिषु विविधैर्दुःखैर्लुप्यते, सर्वसुखस्थानेभ्यश्रयवंते, किंच- 'सयमेव कडे मि (व) गाहतु' ण इसरादिकतं एव, येन यथा कर्म कृतं असंबंधिदोषात् अष्टप्रकारं आत्मनि अवगाहति, आत्मा कर्म्मसु वा, अकारलोपं कृत्वा तमेव अवगाहति 'णो तेण मुच्चेज अट्ठवं' नासौ तेण कर्म्मणा मुच्यतेऽस्पृष्टमस्यास्तीति, आह हि 'पात्राणं च भो ! कडाणं कम्माणं' | किंच-न केवल मिहानित्यता भवति, अन्यत्रापि एषा भवत्येव, तथा 'देवा गंधवर वसा असुरा' वृत्तं (९३) अथवा मा भूत्कश्विदेवसुखेषु संगं करिष्यतीत्यतस्तदनित्यताज्ञापनार्थ अपदिश्यते 'देवा गंधव्वरक्खसा' देवरगहणात् वाणमंतरभेदो, असुराणां प्रतिपक्षः, | सुरा वैमानिकाः, भूमिगता असुरा एव, अथवा भूमिगता भूमिजीवा एव, अथवा भूमिगताः सरिसृपा गृह्यन्ते, इहापि च 'राया पर सेट्ठि माहणा' राजानः- चक्रवर्त्त्याद्याः नरा-पृथग्जनाः सेडिगो-गमाद्या, अधिपास्तु अधिकं पांतीत्यधिपाः, ते तु मंत्रिमहामंत्रिगणकदौवारिकादयः, माहनग्रहणात् जातिभेदः, त एते सर्व्व एव स्वस्थानेभ्यश्यवंते, दुःखिता नाम, नवा स्यात्कस्यचिन्मरणमिष्टं, उक्तं
कर्मव्यथा
1180 11