________________
श्रीसूत्रकृ ताङ्गचूर्णिः
॥ ६२ ॥
स्थावरा वा, किं चान्यत् — इहैव तावद्दासो भूत्वा राजा भवति राजा भूत्वा द्रमकः, तथा बालकौमारयौवनमध्यमस्थाविर्याण्यन्योपमर्देन प्राप्नोति, गतिस्थाननयनासनखप्रबोधादयोऽन्येऽपि विशेषा वक्तव्या इति, किंचान्यत् - प्रत्यक्षेण परोक्षं साध्यते तच्चामी सच्चा 'उरालं जगतो जोगं' सिलोगो ॥ ८४ ॥ ओरालं प्रागडं स्थूलं जगतो योगो, तद्यथा - गर्भबालकौमारयौवनमध्यमस्थाविर्याण्योरालाणि प्रागडानि जुअंति विजुअंति, तथा च तस्मिन्नेव वयसि कश्विद्दासो भूत्वा राजा भवति, ईश्वरथ भूत्वा निर्द्धनो भवति, 'अस भुवि' विपरीततामेवैति विपर्यासः, विपर्यासेन प्रलीयन्ते, अन्यथाभावगमणेनेत्यर्थः, चशब्दान्न सर्वथा प्रलीयंते, द्रव्यतो हि अवस्थिता एव, अनेन प्रत्यक्षदृष्टेन सामान्येनानुमानेनैव साध्यन्ते, यथेह जातिस्सरणाद्वा बहवो विशेषा दृश्यन्ते एवं भवान्तरगतस्य अप्रत्यक्षाः, गतिकायेन्द्रियलिंगत्र सस्थावरराजयुवराजईश्वरादिदासभृतकेंद्र मकादयश्चोत्तमाद्याः विपर्यासाः, भवान्तरेष्वपि प्रत्येतव्याः, एते तु प्रत्यक्ष परोक्षाः ताँस्तान् पर्यायविशेषान् परिणमंतः 'सब्वे अकंतदुक्खा य' सर्व्वे इत्यपरिशेषाः कान्तः प्रिय इत्यर्थः न कान्तमकान्तं दुक्खं अनि अकामं अप्पियं जाव अमणामं दुक्खं, अनुकूलमपि चैतत् ज्ञायते, तथा सव्वे इट्ठा सुभा कंता सुभा जाब मणामा सुभा 'अत' इति अस्मात्कारणात् अहिंसगाः, एवं ज्ञात्वा सर्वसच्चान्यस्य साधोरहिंसनीयानि, किं कारणं ?, तदुच्यते - ' एवं खु णाणिणो सारं ' सिलोगो ।। ८५ ।। ' एतदिति यदुक्तमुच्यते वा सारं विद्धीति वाक्यशेषः, यत्कि १, उच्यते, जेण हिंसति किंचणं, किंचिदिति त्रसं स्थावरं वा, अहिंसा हि ज्ञानगतस्य फलं, तथा चाह- 'योऽधीत्य शास्त्रमखिलं ० ' एवं खुणाणिणो सारं जं ण भासे अलियपयं, एवं अदत्तं, मेहुणं, परिग्गहं च, जं च रागादि अज्झत्थदोसे विवखेति तदप्युच्यते एवं खुणाणिणो सारं, स्यात्किं कारणं सच्चा न हिंसनीया ?, उच्यते- 'अहिंसा समयं चेव' अहिंसासमयो नाम
पर्यायपरावर्तः
॥ ६२ ॥