________________
श्रीमूत्रकृताङ्गचूर्णिः ॥४४२॥
यावादः, तदुत्तरं तु यदि सर्वगत आत्मा सांख्यानां एवं न म्रियन्ति न संसरति ॥ ७१६ ॥ वृत्तं, 'मृङ् प्राणत्यागे' असर्वगतस्य हि प्राणत्यागो युज्यते, यथा-देवदत्तः स्वगृहं त्यक्त्वा अन्यत्र गच्छति, न चैत्रं सर्वगतस्य शरीरादिप्राणत्यागो युज्यते, सर्वगतस्यैव संसारो घटते देवदत्तवदेव, न सर्वगतस्यैव, सर्वगतस्य न तु किञ्चिदप्राप्तं यत्र गच्छतीत्यतः संमारो न घटते, किंच'ण भणे खत्तिय वेम पेमा' तत्र ब्रह्मणोऽपत्यानि वृहन्मनस्याद्वा ब्राह्मणाः, क्षतात्रायन्तीति क्षत्रियाः, कलादिभिर्विशन्ति लोकमिति वैश्याः, प्रदेशास्पृष्टा श्रावन्तोऽन्येपात्मात्मनां प्रदेशास्पृष्टः, तत्र कथमवसीयते यथा तुल्ये चात्मानि शरीरं तनुः शेषाणामित्यपसिद्धान्तः मल्लदासीवत्, यथा मलदासी सर्वेषां मल्लानां सामान्या एवं ब्राह्मणशरीरमपि सर्वेषां क्षत्रियविद्राणां सामान्यमिति, यथा चाह्मणं शरीर तथा क्षत्रियविदृछुद्रशरीराण्यपि सर्वात्मनां ममानीत्यतश्रातुर्वर्णं न घटते, किंच- 'कीडा (य) पक्खी (य) सरीसिवा (घ) ' सर्वगतत्वे सति अयं कीडोऽयं न कीड इति न घटते, तदेवं वाह्मणशरीवत्समानः सर्वः, एवं पक्खी वा, सर्पन्तीति सर्पः नरः, अथवा देवलोकेषु भवा देवलौकिका अमरा इत्यर्थः एतदेव चोत्तरं एकात्मकचादिवैदिकानां किंच - एकात्मकत्वे च सति पिट्पुत्रादिरिति वार्ता न घटते, तत्सर्वज्ञप्रामाण्यात्मांख्यज्ञानप्रामाण्यात्, बह्मापि च किल सर्वज्ञः, तेन चोक्तं- " यस्मात्परं नापरमस्ति किंचित्" तत्कथं केवलज्ञानदृष्टमनृत भविष्यति इति १, उच्यते-नैत्र ते केवलिनो भवन्ति, कथं ?, अनन्तत्वादर्शित्वात् सूत्रं त्वदृष्टमिति १, उच्यते, ननूक्तमेवं 'न मिज्जति ण संमरति', वैदिकानामपि एकात्मकत्वे च ये केवलज्ञानेन लोकमज्ञात्वा जहा वृहादीभिस्तीर्थं प्रवर्त्तयन्ति तेषां कथं वाक्यं प्रमाणं स्यादिति, अथ सूत्रम्-लोयं अयाणित्तिह केवलेणं ॥७१७॥ वृत्तं, लोको नाम द्रव्यक्षेत्रकालभावानां यथावस्थितिः तं लोकमज्ञात्वा तेन येन धर्म्म कथयन्ति अजाणमाणा णासंति
हस्तितापसनिरासः
॥४४२॥