________________
!
श्रीसूत्रकृ ताङ्गचूर्णिः
॥४४१ ॥
संपराइतोवि, संपरीत्यस्मिन्निति सम्परायः स च संसारः भवतामपि संमरत्यात्मा अस्माकमपि कारणात्मा संसरति, आह हि - संसरति० वेदयन् मुञ्चन् सर्वथैवाविशेषः, कस्मात् १, परमात्मनोः संमारित्वात् उक्तं हि अवत्तरूवं पुरिसं महंतं ॥ ७१५॥ वृत्तं, अव्यक्तं रूपं यस्य स भवत्यव्यक्तरूपः, पंच तन्मात्राणि बुद्धिर्मनोऽहङ्कार इति पुरं, अथवा से शरीरं पुरं तस्मिन् पुरे शयत | इति पुरुषः, 'महन्त' इति सर्वगतः, सर्वथा वा प्रकृत्या गतः सनातनः पुरातन इत्यर्थः, आह हि - "अजो नित्यः शाश्वतो यो न क्षीयते घटवत्" इत्यतः कृतो- 'नैनं छिंदन्ति शास्त्राणि' अब गतिप्रजनकान्त्यशनखादनेषु, अक्षयोऽपि कचिच्यायति परमाणुवत्, परमाणुर्व्ययति गच्छतीत्यर्थः, आह हि - 'अच्छेद्योऽयमभेद्योऽयं' से सव्वपाणेसु स सव्वगतोऽसौ सर्वप्राणाः करणात्मानः, अथवा आयुरिन्द्रियशरीर बुद्धिपाणा, 'से' इति तस्यात्मनो निर्देशः, सर्वत इति सर्वासु दिक्षु, सर्वकालं च नित्यमित्यर्थः, आह हि - "सर्व सर्वत्र सर्वकालं च" नित्य इत्येको विशिष्यते, सर्वकारणात्मनामन्यः, यथा चन्द्रमाः सर्वग्रहनक्षत्रताराभ्यो वर्णप्रमाणसंस्थानलक्ष्मलक्ष्मीप्रभा कान्ति मौम्यतादिभिर्विशिष्यते एवमसावपि परमात्मा कारणात्मभ्यो विशिष्यते, सांख्यप्रक्रियाचारः, अथवा वैदिकानामयं सिद्धान्तः 'अव्वत्तरूवं पुरिसं महंत' तेपामेक एव परमात्मा, शेपास्तु तत्प्रभवाः, आह हि - " यस्मात्परं नापरमस्ति किंचित्" स एव च सनातनोऽक्षयो अव्ययश्च पूर्ववत्, 'सव्वेसु पाणेसु' कथमिति १, ते उच्यते - यथा हिमहम (पट) ल विप्रमुक्तत्वात् भूरि| तेजसाऽऽदित्य विम्वाद्रश्मयः सर्वतो निस्सरंते, निःसृत्य च तमेव पुनः प्रविशन्ति, न च तस्याचाधां कुर्वन्ति, एवं सर्वात्मनस्त्रिकालावस्थिताः कूटस्थान्निस्सरंति निसृत्य च तानि स्वकर्मविहितानि शरीरानि निवर्तयित्वा सुखदुःखादि चानुभूय पुनः पुनस्तमेव परमात्मानं प्रविशन्ति, एतच्च सूत्रं साङ्ख्यवैदिकयोस्तुल्यं व्याख्यायते, नैके परमात्मानो, वेदिकानां तु एकः, सांख्यवैदिकयोः प्रक्रि
हस्तितापसनिरासः
॥४४१ ॥