________________
तज्जीव| तच्छरीराः
श्रीसूत्रकतामचूर्णिः ॥३७॥
MalinitiNI
wal मात्रगरीरच्यापी जीवः तत्रैव तदुणोपलंभात , इह यस्य यत्र गुणोपलंभः स तन्मात्री दृष्टः, यश्च यत्रासन् न तस्य तत्र गुणोपलब्धिः यथाऽनेरभसि, उक्ता एकात्मवादिका। इदाणितज्जीवतस्सरीरवादी, ते भणंति-पत्तेयं कसिणे आया०सिलोगो॥११॥ | पत्तेयं नाम पृथक् पृथक् एकैकं शरीरं प्रति एक एवात्मा भवति, न हि सर्व एकात्मकं, कसिणो णाम शरीरमात्र, नतु शरीराद् व्यतिरिच्यते, वाला नाम मंदबुद्धयः पंडिता बुद्धिसंपन्ना अथवा पंडिता जे एतं दरिसणं पवण्णा तेषां प्रत्येकम् एकैक आत्मा | तेषां तु 'संति पचा ण तेसंति' संतीति संत्यात्मानः, केवलं तु सरीरं आत्मा भूत्वेह प्रेत्य नते यांति, प्रेत्य नाम परभवो,कथं,न हि | सत्ता उववातिका विद्यते,यतथैवं तेण"णत्थि पुण्णे व पावे वासिलोगो"|१२शान हि किंचि तपोदानशीलैः अपि आचर्यमाणैः | पुण्यं बध्यते,हिंसाद्यैर्वा पापं,णत्थि लोगे इतो परंति न वास्त्यन्यो लोकः यत्र पुण्यपापे उक्तरूपे स्यातां,कसा?-सरीरस्स विणासेणं विणासोहोति देहिणो, स्यादेतत्-यदि पुण्यपापे न भवतः तेनायमीश्वरः अनीश्वरो वा न विद्यते, नन्वेकस्मादेव पाषाणात रुद्रादिप्रतिमा क्रियते पादप्रक्षालनशिला च, न चानयोः पुण्यपापे भूः, एवं स्वभावादेव ईश्वरो भवत्यनीश्वरो वा, उक्तं च-"कंटकस्य च तीक्ष्णत्वं, मयूरस्य च चित्रता। पर्णानां नीलता स्वच्छा, स्वभावेन भवंति हि ॥१॥ तेषामुत्तरं-विद्यमानकर्तृकमिदं शरीरं आदिमत्प्रतिनियताकारत्वात् , इह यदादिमत् प्रतिनियताकारं च तद्विद्यमानकर्तृकं दृष्टं यथा घटः, यच्च न विद्यमानकर्टकं न हि तदादिमत् प्रतिनियताकारं च यथाकाशं, यत्कर्तृकं चेदं शरीरं स जीवः, तस्मादन्य इति, आदिमविशेषणं जंबूद्वीपादिलोकस्थस्थितिनिषेधार्थ, विद्यमानाधिष्ठातृकानींद्रियाणि करणत्वात् , इह यद्यत् करणं तद्विद्यमाणाधिष्ठातृकं दृष्टं यथा दंडादयः कुलालाधिष्ठिताः, यच्चाविद्यमानाधिष्ठातकं न तत्करणं यथाऽऽकाशं, यश्चैपामधिष्ठाता स जीवस्तेभ्योऽर्थान्तरमिति विद्यमानादातृकमिदं इंद्रियविषयकदम्बकं
HITHAISAFA
LDEmonal