________________
तज्जीव
तच्छरीराः
चूर्णिः ३८॥
आदानादेयभावात् , इह यत्रादानादेयभावस्तत्र विद्यमानादातृकत्वं दृष्टं यथा संदंशायःपिंडयोरयस्कारादानुकता, यच्चाविद्यमानादातृकं न तत्रादानादेयभावः, यथाऽऽकाशे, यश्च विषयाणामिन्द्रियैरादाता स तेभ्योऽर्थान्तरमात्मेति, विद्यमानस्वामिकमिदं शरीरं इंद्रियादिभोग्यत्वात् , इह यद्भोग्यं तद्विद्यमानभोक्तृकं दृष्टं यथाऽऽहारवस्त्रादि, यचाविद्यमानभोक्तृकं न तद्भोग्यं यथा खरविषाणं, यश्चैषां शरीरादीनां भोक्ता स तेभ्योऽर्थान्तरमात्मेति, विद्यमानस्वामिकमिदं इन्द्रियादि संघातत्वात् , यत्संघातात्मकं तत् विद्यमानस्वामिक दृष्टं यथा गृहं, यञ्चाविद्यमानस्वामिकं तदसंघातात्मकं यथा खरविषाणं, यश्चैषां शरीरादीनां स्वामी स तेभ्योऽर्थान्तरमात्मेति, यथाऽयं कर्ता अधिष्ठाता दाता भोक्तार्थी चोक्तः शरीरादन्यो जीवः तथा चैवोदाहृतं, स्यात्-कुलालादीनां मूर्तिमत्त्वसंघातानित्यत्वादिदर्शनादात्मनामपि तद्धर्मता सा तैर्विरुद्धा प्रायः, तच्च न, संसारिणः खल्वदोषात् , संसार्यवस्थायामेवायं साध्यते, न मुक्तावस्थायां, अयं चानादिकर्मसंतानोऽपि निबंधनत्वात् द्रव्यपर्यायार्थिकनयाभिप्रायाच तद्धर्मापीत्यदोषः, किंच-योऽयं जातिस्मरः सः अविनष्टः, इहार्थतः तदनुभूतानुस्मरणात् , योऽन्यदेशकालानुभूतमर्थमनुस्मरति सोऽविनष्टो दृष्टः यथा बाल्यका लेऽनुभूतानां यज्ञदसः, अथ मन्यसे-जन्मान्तरविनष्टोऽप्यनुस्मरति विज्ञानसंतानावस्थानात् , उच्यते, एवमपि भवान्तरसद्भाव, सर्वशरीरेभ्यश्चाविज्ञातसंतानार्थान्तरता सिद्धा,अविच्छिन्नविज्ञानसंतानात्मकश्चेत्यात्मेति शरीरादर्थान्तरमेव सिद्ध तथा च-विण्णाणंतरपुवं वालण्णाणमिह णाणभावाओ। जह वालणाणपुष्वं जुवणाणं तंच देहहियं ॥१॥ पढमोथणामिलासो पुव्वं आहारऽमिलसमाणस्स। जह संपदामिलासोस पुवकालाऽणुभूतीतो ॥२।। सो य भिण्णो सो य देहहितो, उक्ता हि तज्जीवतच्छारीवादी। इदाणिं अकारकवादिणो भण्णंति-तेपामयं पक्षः, कुवं च कारवं चेव सिलोगो॥१३॥करोतीति कर्ता,स'स्वतंत्रः कर्ते'तिकृत्वान विद्यते,
H
D॥ ३८॥