________________
श्रीसूत्रताङ्गचूर्णिः
||२८२॥
रौद्रमपि गच्छेति, अबुद्ध्यमानाः रौद्रं चमंतः आउस्स कालाइयारं व घातं यावद्येनायुकालोऽतिवर्तितः स तस्यायुः कालः अतिचरणमतिचारः आयुःकालस्य अतिचरणे चरणोवघातं होजा, पालक इव खन्दकस्य, येन चान्योपघातो भवति, अथवा अकोसेजावा, लद्वाणुमाणे तु अणुमीयतेऽनेनेत्यनुमानं लब्धं अनुमानं येन स भवति लब्धानुमानः, कथं लब्धं १, नेत्रवक्त्र विकारेहिं अन्तर्गतं मनो गृह्यते, तंजहा- 'केऽयं पुरिसे ? किंवा दरिसणं अभिप्पसण्णे ? किं चास्य प्रियमप्रियं वा ? यदिदं कथ्यत' इति एवं लब्धानुमानः परेषु कथयेत् येनात्महितं भवति परहितं च इह परत्र च, अथवाऽयमर्थः 'कम्मं च छंदं च विगिंच धीरो (रे) ॥५७७॥ वृत्तं, येन कर्मणा जीवति न तेनैनं परिभाषेत्, यथा होका (अक्का'), न चैवैनं तेन कर्मणा निन्दयेत् इति, यथा चर्मकारो भवान् कोलिको वा मा सो उदुरुट्ठोण गेण्डिज, छन्दं चास्य जाणेज, तद्यथा-दारुणो मृदुर्वा, अथवा छन्द इति येनाक्षिप्यते वैराग्ये न शृङ्गारेण इतरेण वा तथा-किंच अयं पुरिसे कंवा दरिणमभिलसे ? एवं ज्ञात्वा विणएज तु सर्वतो आतभावं आतभावो णाम मिथ्यात्वं अविरतो वा ततो अप्रशस्तादात्मभावात् सर्वतो विनयेत्, एवं कालणे मायण्णे, जे व क्खेअण्णे, तंजहा रूवेहिं लुप्यंति रूपं सर्वप्रधानं विषयाणां तथाऽत्रापि स्त्रीरूपादि तेष्वेव मूर्च्छन्नालुप्यते इहापि तावत् जहा 'सदे गओ० 'गाथा, किमु परलोए ? एवमेतानिन्द्रियापायान् दृष्ट्वा विनंति विद्यां गृहीत्वा ज्ञात्वेत्यर्थः, गृहीतविद्यः सन्ः त्रसस्थावररक्षणं धर्मं कथयति, तं हु णं कहेता न पूजासकारादीन्यालम्बनानि आलंचयेत् इत्यतो निवार्यते 'न पूग्रणं चेव' ॥ ५७८॥ वृत्तं, ण पूया मम भविस्सती, सिलोगो णाम जसो कित्ती यथाऽनेन तुल्यः प्रशस्तविस्तशे कथको, सृष्टवाक्य इत्यादि, प्रियं च न कुर्यादसंयतानां अन्यतरेण सावद्योपकारेण वा, अप्रियं अथवा ममायं प्रियं अयं वाऽप्रिय इति, अथवा यो यस्य प्रियः सन् तस्य पिशुनवचनविद्वेषगादि न कुर्याद् धर्म्म कथी । किंच
आयु:कालादि
॥२८२॥