________________
XXXXXXXXXXXXXXXXXXXXXXXX
गुरुः प्रोवाच ते भोगफलं कर्मास्ति संप्रति । भुक्ते तस्मिन श्रमणी त्वं भविष्यसि शुभाशये! ॥ ३३० ॥ एवमस्त्विति तद्भेष्ठी प्रतिपद्याययौ गृहम् । तदृष्ट्वा चिन्तयामास विस्मितः स महीपतिः ॥ ३३१॥ अत्यद्भुतं भगवतो ज्ञानमस्य महीतले । प्रत्यक्षमिव येनोक्तं यवृत्तं पूर्वजन्मनि ॥३३२॥ प्रप्रच्छ च प्रभो! मित्रानन्दस्य सुहृदः कथाम् । ममाप्याख्याहि कृत्वा त्वं प्रसादमतुलं मयि ॥ ३३३॥ गुरुणोक्तं महाराज ! त्वत्पार्थाचलितोऽथ सः। जलदुर्गमतिक्रम्य स्थलदुर्गे ययौ क्रमात् ॥३३४॥ तचैकत्र गिरिणदीप्रपाते तस्थिवानसौ । तदा भोक्तुं निविष्टास्ते सर्वेऽपि तव सेवकाः ॥३३५॥ कस्याश्चिद् दैवदुर्योगात पल्लेर्मध्यात समागता । पपात तत्र भिल्लानां धाटी तावदतर्किता ॥ ३३६ ॥ सर्वेऽपि पत्तयो भिल्लै प्रचण्डैस्ते पराजिताः । मित्रानन्दः स एकाकी कान्दिशीकः पलायितः ॥ ३३७॥ ह्रिया दर्शयितुं वक्त्रमक्षमास्ते पदातयः । केपि क्वापि ययुः पार्श्वे भवतः कोऽपि नाऽऽययौ ॥ ३३८॥ मित्रो गच्छन्नरण्येऽथ ददर्शकं सरोवरम् । तत्र पीत्वा च पानीयं न्यग्रोधस्य तलेऽस्वपीत् ॥३३९ ॥ ततोऽसौ कृष्णसर्पण निस्सृत्य वटकोटरात् । दष्टो दृष्टश्च तत्रैकेनाऽऽगतेन तपस्विना ॥३४०॥ विद्याऽभिमन्त्रितजलाभिषिक्तः सकलाङ्गकः । करुणाऽऽपन्नचित्तेन तेन जीवापितस्ततः ॥३४१ ।। पृष्टश्चैवं त्वमेकाकी प्रस्थितोऽसि व भद्रक!। तेनापि कथिता वार्ता सत्या तस्य स्वकीयका ॥ ३४२॥ स्वस्थान तापसः सोऽगाद् दध्यौ मित्रोऽपि हा मया। संप्राप्तमपि नो लब्धं सुखेन मरणं किल ॥ ३४३ ॥