________________
साख्यद्योति कोऽप्यत्र ज्ञानी तत्तेन छिद्यते। सन्देहोऽयं प्राणनाथ ! हन्त नान्येन केनचित् ।। ३०७॥ उद्यानपालकेनेति विज्ञप्तोत्रान्तरे नृपः । देवाज्यातोऽस्ति श्रीधर्मघोषसरिः पुरे तव ॥३०८ ।। अशोकतिलकोद्याने प्राशुकस्थण्डिले स्थितः । चतुर्ज्ञानधरो धर्म लोकानामादिशत्यसौ ॥३०९॥ समयागमनं तस्य श्रुत्वाऽसौ भक्तितत्परः । ययौ तद्वन्दनाहेतोः सामग्रया प्रेयसीयुतः ॥ ३१० ॥ खड्गादिराजचिह्नानि मुक्त्वा गुर्वन्तिकं गतः । नत्वा सपरिवारं तं निषसाद यथास्थिति ॥ ३११ ॥ गुरुरूचेत्र भोः ! स्वर्गापवर्गादिसुखैषिभिः । नष्टदुष्टाष्टकर्माऽयं कर्तव्यो धर्म एव हि ॥३१२ ॥ अत्रान्तरेऽशोकदत्तः पप्रच्छैवं वणिग्वरः । भगवन् ! कर्मणा केनाशोकश्रीर्दुहिता मम ॥३१३ ॥ अतीव वेदनाऽऽक्रान्ता सर्वाङ्गेष्वभवत्ततः। चिकित्साश्च कृतास्तस्या रोगशान्तिर्बभूव न ॥ ३१४ ॥ युग्मम् ॥ सूरिः प्रोचे भूतशालनगरे श्रेष्ठिनः प्रिया । साऽभवद् मृतदेवस्य नाम्ना कुरुमती पुरा ॥३१५॥ पीते सत्यन्यदा दुग्धे मार्जार्या भणिता तया । स्नुषा देवमती नाम्नी गाढकोपवशादिदम् ॥ ३१६॥ शाकिन्या किं गृहीताऽसीर्यनारक्षि पयस्त्वया। साऽपि तद्वचसा भीतोत्कम्पिताङ्गी बभूव च ॥ ३१७ ॥ ततः सा दुष्टमातङ्गन्या शाकिनीमन्त्रयुक्तया। आत्ता स्वकर्मकर्येव छलं लब्ध्वा झटित्यपि ॥३१८॥ ततस्तद्वेदनाक्रान्ता भिपग्भिः सा चिकित्सिता। दोषे तथाऽप्यशान्तेऽस्या योगी कोऽपि समाययौ ॥३१९॥