SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ शान्तिनापचरित्रम् ॥४६॥ तृतीय: प्रस्ताव: एवं कृत्वोचितं तेषां कृतजैकशिरोमणिः । अखण्डशासनो राज्य पालयामास तत्र सः ॥ २९५॥ राज्यकार्यरतोऽप्येवं मित्रानन्दः शवोदितम् । तन्मृत्युसूचकं वाक्यं विसस्मार कदापि न ॥ २९६॥ एकदा तेन भूपस्य कारणं तन्निवेदितम् । देशान्तरगतिः स्वस्य प्रार्थिता च पुनस्ततः ॥ २९७ ॥ प्रत्युक्तो भूभुजा सोऽपि मा कापीस्त्वं भयं सखे। दुष्टोऽपि स्थितयोरत्र कर्ता नौव्यन्तरःस किम्?॥ २९८ ॥ मित्रानन्दोऽवदत् प्रत्यासन्नत्वेन मनो मम । अद्यापि दूयते दूरं तन्मां प्रेषय भूपते! ॥२९९ ।। विचिन्त्योक्तं पुना राज्ञा यद्येवं गच्छ तत् सखे ! | नरैः प्रेत्ययितैः सार्द्ध वसन्तपुरपत्तनम् ॥ ३० ॥ अङ्गीकृते तदादेशे विसृष्टोऽसौ महीभुजा । प्रेपिताश्च समं तेन शिक्षा दत्त्वेति पूरुपाः ॥३०१॥ हहो ! तत्र गतैः कश्चिद् युष्मन्मध्यान ममान्तिकम् । आगन्तव्यमिहैतस्य क्षेमवार्ता निवेदितुम्।। ३०२ ॥ अथ मित्र गते राजा तद्वियोगादितोऽपि सः । पुण्यलब्धां समं देव्या भुङ्क्ते स्म नृपतिश्रियम् ॥ ३०३ ॥ तेषां मध्यान्नृणां कोऽपि नाऽऽययौ भभुजा ततः। अन्ये संप्रेपितास्तस्य शुद्धिज्ञानकृते नराः॥ ३०४॥ प्रत्यागतैश्च तैः पुम्भिः कथितं नृपतेरदः। दष्टोऽसौतत्र नाऽस्माभिः वार्ताऽप्यस्य श्रुतान हि ।। ३०५॥ तत संभ्रान्तचित्तो राद देवीमूचे कथं प्रिये । कर्तव्य यन्न वार्ताऽपि श्रुता मित्रस्य हा ! मया।। ३०६॥ १ विश्वस्तेः।
SR No.010541
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorKanchanvijay
PublisherKanchanvijay
Publication Year1940
Total Pages381
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy