________________
तृतीयः
शान्तिनावचरित्रम् ॥४५॥
वहिपार्थस्थितः सर्वैर्नागरैर्भणितोऽथ सः । भद्राद्यापि प्रतीक्षस्व येनेदमवधेर्दिनम् ॥ २६८॥ एवमश्रुमुखे तस्मिन्निपिद्धमरणे जनैः। अपराह्ने तया सार्द्ध मित्रस्तत्र समाययौ ॥२६९ ॥ आगच्छन्तं तमुवीक्ष्यामरदत्तः ससम्भ्रमः । उत्थायाऽऽलिङ्गति स्माश्रुजलधौतमुखाम्बुजः ॥२७० ॥ यत्तयोमित्रयोः सौख्यमभ्रन्मिलितयोः किल । तावेव वेदको तस्य नान्यस्तद्वक्तुमीश्वरः ॥ २७१॥ मित्रानन्दोऽवदन्मित्र ! तव चित्तस्य चौर्यसौ । आनीताऽस्त्युररीकृत्य मया कष्टपरम्पराम् ॥ २७२ ॥ इतरः स्माह बन्धो । त्वं सत्यनामा सदैव मे । साधितेनामुनाऽर्थेन विशेषेणाभवः पुनः ॥ २७३ ।। अपनाय्य चितैधांसि स्थाने तत्राग्निसाक्षिकम् । मित्रः कारयति स्माथ पाणिग्रहणमेतयोः ॥ २७४ ॥ विलोक्य रत्नमञ्जर्या रूपं पौरगणोऽवदत् । तन्नाश्चर्य यदेषोऽस्याः प्रतिच्छन्देन मोहितः ॥ २७५ ॥ वृत्तोद्वाहस्य तस्याथाऽमरदत्तस्य तत्र यत् । सञ्जातं भाग्ययुक्तस्य तदितः श्रूयतां जनाः ॥२७६ ॥ तस्मिन्नेव पुरेऽपुत्रो महीपालो व्यपद्यत । चक्रे च राजलोकेन पञ्चदिव्याधिवासना ॥२७७॥ भ्रान्त्वा त्रिकचतुष्कादिस्थानेषु निखिले पुरे । तानि तत्र समाजग्मुः कुमारो यत्र विद्यते ॥ २७८ ॥ येन हेषितं द्वाक हस्तिना गुलगुलायितम् । चक्रे तस्योपरि छत्रं तस्थौ तत्र स्वयं तथा ॥ २७९ ॥ वीजितं चामराभ्यांच भृङ्गारेण विनिर्ममे। महीपत्वाभिषेकोऽस्य, पुण्यैः किं नाम नो भवेत् ॥ २८०॥ ततस्तं शुण्डयोत्पाव्य गजः स्कन्धेऽध्यरोहयत् । विवेश नगरे सोऽथ सञ्जातानेकमङ्गलः ॥२८१ ॥
******************