SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ तच्छ्रुत्वा विस्मितो राजा प्रोचे दर्शय तत्कटम् । मारोहस्ताद् गृहीतं यत् त्वया वीरशिरोमणे ! ॥२२८॥ परिधानांशुकग्रन्थिमध्यादाकृष्य तद् द्रुतम् । मित्रानन्दोऽर्पयामास कटकं भूपतेः करे ॥२२९ ।। स्वनामाकं च तदृष्ट्वा स दध्यौ किमहो मम । कन्यकैवाभवन्मारी यत्तस्या भूषण ह्यदः ॥२३० ॥ देहचिन्ताऽपदेशेन ततश्चोत्थाय भूपतिः । गत्वा च कन्यकापार्श्वे प्रसुप्तां तामलोकयत् ॥ २३१ ॥ दृष्ट्वा वामकरं तस्या गतालङ्करणं तथा । पट्टबन्धं व्रणस्थाने वजाहत इवाभवत् ॥२३२॥ अचिन्तयच्च वंशो मे चन्द्रमण्डलनिर्मलः । कलङ्कितोऽनया दुष्टकन्यया सर्वथा यतः ॥२३३॥ नृशंसोऽसनृताभाषी कुशीलश्चञ्चलाशयः । स्त्रीजनो जायते यत्र तत्कुलं न हि निर्मलम् ॥ २३४॥ न यावन्नगरीलोक निखिलं मारयत्यसौ । तावत् केनाप्युपायेन कार्योऽस्या एव निग्रहः ॥२३५॥ विचिन्त्यैवं वलित्वा चापृच्छन्मित्रं महीपतिः। भद्र। किं साहसेनैव मृतकं रक्षितं त्वया ॥२३६ ॥ अथवा मन्त्रशक्तिस्ते काचिदस्तीति सोऽवदत् । कुलक्रमागतो नाम मम मन्त्रोऽपि विद्यते ॥ २३७॥ कृत्वैकान्तमथाऽचख्यौराजा यद् भद्र मे सुता। मारी, नास्त्यत्र सन्देहस्ततोऽस्या निग्रहं कुरु ॥ २३८॥ मित्रानन्दोऽवदद्वाक्यं घटते देव ! नेदृशम् । यत्कुमारी भवेन्मारी समुत्पन्ना कुले तव ॥२३९॥ उवाच भूपतिर्नामाघटमानं किमत्र भोः । मेघवृन्दोद्भवा विद्यद् भवेत् प्राणहरी न किम् ? ॥ २४०॥ इतरः स्माह यद्येवं तदियं दर्यतां मम । यतः साध्यामसाध्यां वा वेमि दृष्टया विलोक्य ताम् ।। २४१॥ SXEXXXXXXXXXXXXXXXXX
SR No.010541
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorKanchanvijay
PublisherKanchanvijay
Publication Year1940
Total Pages381
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy