________________
।
XXXXXXXXXXXXXXXXXXXXXXXXXXX
मित्रानन्दोऽप्यथाढो राजपुत्र्या निकेतनम् । सुष्पाप साऽपि तद्वीरचर्यामालोक्य कैतवात् ।। २०१॥ कटकं राजनामा स तद्धस्तादुपाददे । चक्रे क्षुरिकया वीरो दक्षिणोरौ च लक्षणम् ॥२०२॥ तेनैव विधिना सोऽथ निर्गत्य नृपमन्दिरात् । सुप्तो देवकुले क्वापि दध्यौ चैवं नृपात्मजा ॥२०३ ॥ न सामान्यः पुमानेप चरित्रेणामुना ध्रुवम् । तन्मया न कृतं साधु नायं सम्भाषितो यतः ॥ २०४ ॥ अनया चिन्तया रात्रि गमयित्वा निशात्यये । निद्रामवाप सा बाला स तु वीरनरस्तदा ॥२०५॥ उत्थाय द्वारदेशे च गत्वा भूपतिवेश्मनः । अहो अन्याय इत्युच्चैः पूत्करोति स्म बुद्धिमान् ॥ २०६॥ राजादिष्टप्रतीहाराकारितो नृपसन्निधौ । गत्वा नत्वा नृपं मित्रानन्दोऽथैवं व्यजिज्ञपत् ॥२०७॥ प्रचण्डशासने देव ! त्वयि सत्यपि भूपतौ । वणिजा परिभूतोऽहमीश्वरेण विदेशगः ॥२०८॥ राज्ञा च कथमित्युक्तः कथयामास तस्य सः। द्रव्यलाभावसानां तां शवरक्षणजां कथाम् ॥ २०९ ॥ ततश्चाज्ञापितो राज्ञा रक्षकस्त्वयकाऽऽशु रे । सोच बवा दुराचारो वणिगानीयतामिति ॥ २१०॥ ज्ञातव्यतिकरः सोऽथ स्वयमेत्य नृपान्तिकम् । दीनारानार्पयत्तस्य नृपस्यैवं शशंस च ॥२११॥ तस्मिन् काले मया देव ! शोकाकुलितचेतसा । शवकृत्यविहस्तेन दत्तमस्य धनं न हि ॥ २१२॥ लोकाचारेण दिवसत्रितयं विगतं यतः । द्रव्यदानविलम्बे न दोषः को नाम मे प्रभो! ॥२१३॥ निर्दोप इति भूपालो वणिजं विससर्ज तम् । मित्रानन्दं च पप्रच्छ शवरक्षणजां कथाम् ॥२१४ ॥