________________
EXCEEEXXXIIIXEEEXAX
अहं निकेतनस्यास्य कारकस्तेन वेदव्यदः । शंस त्वमपि मे तावदुपायं स्ववितर्कितम् ॥१४७॥ सोऽवोचत्तात ! मन्मित्रमिदं प्रतिकरोषि चेत् । गत्वा सोपारके सूत्रधारं पृच्छाम्यहं ततः ॥१४८॥ यद्यसौ पुत्रिका तेन स्यात्प्रतिकृतिना कृता। ततस्तस्मिन् समानीते सेत्स्यत्यस्य समीहितम् ॥ १४९ ॥ श्रेष्ठिना तत्प्रतीकारेऽङ्गीकृतेऽथामरोऽवदत् । श्रोष्यामि यद्यपायं ते तदा यास्यन्ति मेऽसवः ॥ १५०॥ इतरः साह नायामि द्विमास्यन्तरहं यदि । तदा त्वयाऽवगन्तव्यं नास्ति मन्मित्रमित्यहो ॥१५१ ॥ कष्टेन बोधयित्वैनं श्रेष्ठिनाऽनुमतोऽथ सः । अखण्डितप्रयाणोऽगात् सोपारकपुरे क्रमात् ॥१५२॥ तत्रागुलीयं विक्रीय गृहीत्वा वसनादि च । ताम्बूलव्याप्तकरः प्रययौ स्थपतेहे ॥१५३॥ सश्रीक इति तेनास्य प्रतिपत्तिः कृता मुदा । शुभासनोपविष्टः स पृष्टश्चागमकारणम् ॥१५४॥ भद्र ! देवकुलं रम्यं कारयिष्याम्यहं त्वया । परं प्रतिकृतिः काचिद्दर्यतामिति सोऽब्रवीत् ॥१५५ ॥ उवाच सूत्रकृच्चक्रे प्रासादो मयका किल । पुरे पाटलिपुत्राख्ये स दृष्टो भवता न किम् ? ॥१५६ ॥ अवादीदपरो दृष्टः किं तु पञ्चालिकाऽमुका । प्रतिच्छन्दकृता तत्र स्वबुध्ध्या रचिताऽथवा ॥ १५७ ॥ स जगादावन्तिपुर्या महासेनस्य भूपतेः । सुताया रत्नमञ्जर्याः प्रतिच्छन्देन सा कृता ॥१५८॥ पृष्ट्वा सुदिनमेष्यामीत्युक्त्वा गत्वाऽऽपणेऽथ सः। विक्रीय चारुवस्त्राणि व्यधात्पाथेयसूत्रणाम् ॥ १५९ ॥ १. प्रासादस्य: २ कष्टम्.
SXXESXXEEEEEEXXXXXXX