________________
शान्तिनावचरित्रम् ॥४०॥
तृतीयः प्रस्तावः
पुनस्तथैव मित्रेण क्षणेनोक्तो जजल्प सः। चलामि चेदितः स्थानात ततो मृत्युभवेन्मम ॥१३३ ।। मित्रानन्दो जगादेवं कृत्याकृत्यविदः सदा । काऽस्यां पापाणमय्यां ते हन्त रागातिरेकता ? ॥ १३४ ॥ यदि नारीरिरंसा ते ततः प्राप्तः पुरान्तरे । विधाय भोजनं स्वेच्छां पूरयेस्तामपि क्षणे ॥१३५॥ एवमुक्तेऽपि तेनास्मिस्तस्याः पार्श्वममुञ्चति । भरिमन्युभराक्रान्तो मित्रानन्दोऽरुदभृशम् ॥१३६ ।। रुरोदामरदत्तोऽपि स्थानं तत् तु मुमोच न । तावत्तत्राऽऽययौ श्रेष्ठी प्रासादस्यास्य कारकः ॥ १३७ ॥ रत्नसाराभिधानेन तेनेदं भणिताविमौ । भद्रौ ! युवा युवतिवत् किं नाम रुदिथो वृथा ? ॥ १३८ ॥ ताततुल्यस्य तस्याग्रे कथयित्वाऽऽदितः कथाम् । मित्रानन्देन मित्रस्य चेष्टितं तन्निवेदितम् ॥ १३९ ॥ तेनाथ बोधितोऽप्येप रागं पाश्चालिकागतम् । न यावद्विजही तावत् स सखेदमचिन्तयत् ॥१४॥ अप्यश्मनिर्मित पुंसां यासां रूपं मनो हरेत् । वनिता विश्वमोहाय मन्ये ता वेधसा कृताः ॥१४१ ॥ तावन्मौनी यतिआनी सुतपस्वी जितेन्द्रियः । यावन्न योषितां दृष्टिगोचरं याति पूरुपः ॥१४२ ॥ एवं चिन्तापरः सोऽथ मित्रेण भणितः पुनः । तातास्मिन सङ्कटे कार्ये क उपायो भविष्यति ॥ १४३ ॥ तस्मिंश्च कञ्चनोपायमपश्यति वणिग्वरे । मित्रानन्देन तमभिप्रोचे बुद्धिमता पुनः ॥१४४ ॥ तं चेत् सूत्रकृतं वेत्सि (मि) येनैषाऽकारि पुत्रिका। तदिच्छापूरणोपायमस्य तात! करोम्यहम् ।। १४५॥ रत्नसारोऽब्रवीत्तर्हि सूरदेवोत्र मूत्रकृत् । स तु कुकुणदेशान्तःसोपारकपुरेऽस्ति भोः ॥१४६॥
॥४०॥