SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ तृतीयः शान्तिनावचरित्रम् ॥३९॥ प्रस्ताव राजा प्रोवाच द्रव्येण मा विलोभ्य समीहसे । अरे त्वमात्मनो मोक्षमपराधे महत्यपि ॥१०६॥ मन्त्र्यूचे नाथ ! मे प्राणास्तवाऽऽयत्ताः सदैव हि । परं प्रसादो मञ्जूपाऽवलोके क्रियतां मम ॥ १०७ ॥ ततस्तस्योपरोधेन लोकाम्यर्थनया तथा । उद्घाटयामास सर्वान मञ्जूपातालकान नृपः ॥१०८॥ सवेणीकसव्यपाणि सासिधेन्वितरं पुनः । मञ्जूषान्तः सुबुद्धि तं बद्धक्रममुदैवत ॥१०९॥ तं दृष्ट्वा विस्मयापन्नः पप्रच्छ सचिवं नृपः । किमेतदिति स प्रोचे नाहं जानामि किञ्चन ॥११० ॥ जानात्येव भवान् राजन् ! यो हि भक्तेऽपि सर्वथा ।व्यलीकं चिन्तयन मूलच्छेदायोपस्थितो मयि ॥१११ ॥ परमार्थ ममाऽऽख्याहीत्युक्तोराज्ञाऽब्रवीत्पुनः। स्वामिन् ! केनापि रुष्टेन प्रचण्डव्यन्तरादिना ॥११२॥ निदोपस्यापि पुत्रस्य दोष उत्पादितो मम । अन्यथैवं गोपितस्यावस्थाऽस्य कथमीदृशी? ॥११३ ॥ आपदेतन्निमित्तेनोपस्थिता मे सुदुःसहा । इति ज्ञात्वा यथायुक्तं विचारय कुरुष्व च ॥११४॥ अभ्यधाच नृपो मन्त्रिन् ! तुष्टोऽस्मि तव सर्वथा । परं कथय विज्ञातं कथमेतत्त्वया स्फुटम् ॥११५॥ ततो नैमित्तिकपृच्छाप्रभृत्याख्याय सोऽवदत् । सुलभा देव ! संसारे विपदो विषयाशिनाम् ॥११६ ॥ देवमानुपतिर्यकस्वकृता एताश्चतुर्विधाः । धर्मस्यैव प्रभावेण नश्यन्ति जगतीपते ! ॥११७॥ राज्ये मन्त्रिपदे चैव निवेश्य स्वस्वनन्दनौ । तौ तेपाते तपोऽत्युग्रं प्रतिपद्यानगारताम् ॥११८ ॥ तन्मित्र ! मन्त्रिणा तेन यथाऽऽपल्लचित्तौजसा । आवामपि करिष्यावस्तथैव त्वं विषीद मा ॥ ११९ ।।
SR No.010541
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorKanchanvijay
PublisherKanchanvijay
Publication Year1940
Total Pages381
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy