SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ राजा प्रोवाच हे मन्त्रिनिदं धर्मे नियोज्यताम् । विना भवन्तमेतेन धनेनाहं करोमि किम् ? ॥९२ ॥ भूयोऽपि सचिवः स्माऽऽह धर्मोऽयं हि नियोगिनाम् । यदायों वञ्च्यते नैव विपद्यपि धनादिना ॥ ९३॥ ततो राज्ञा प्रपन्नं तत् मन्त्री च जिनमन्दिरे । अष्टाहिकोत्सवं चक्रे सङ्घ पूजयति स्म च ॥९४॥ दीनानाथादिसत्वेभ्यो ददौ दानं यथोचितम् । शान्तिमुद्घोपयामासाभयदानं च देहिनाम् ॥९५ ॥ सन्नद्धकवचैः पुम्मिविविधायुधधारिभिः । गृहं च रक्षयामास तथा हयगजादिभिः ॥९६ ॥ एवं क्रमेण संप्राप्तेऽकस्मात्पञ्चदशे दिने । राजान्तःपुरमध्ये वागुदस्थादीदृशी स्फुटा ॥९७ ॥ यथा हि मन्त्रिणः पुत्रः सुबुद्धिर्नाम दुर्मतिः। राजपुत्र्याः केशपाशं छिच्या क्वापि ययावहो। ॥ ९८॥ तच्छ्रुत्वा कुपितो राजा दध्यौ कर्मेदृशं व्यधात् । अतिसम्मानितो मूखों मुमूर्षुः सचिवात्मजः ॥ ९९ ॥ अस्यापराधे वद्धथो मे सकुटुम्बोऽपि मन्त्र्यसौ । इति च ज्ञापयामास पार्पद्यानखिलास्ततः ॥१०० ॥ सर्वोऽपि मारणीयोऽस्य मोच्या नो कर्मकर्यपि । इत्यादिश्य बलं मन्त्रिगृहे प्रैपीनराधिपः ॥१०१॥ तदमात्यभटे रुद्धं गृहं चैत्यपुरः स तु । सुधीाननिविष्टः सन वृत्तान्तमशृणोदमुम् ॥१०२ ॥ विनिवार्य निजान पत्तीन सेनामुख्यानदोवदत् । यथा नयत मां पार्श्वमेकवारं महीपतेः ॥१०३ ॥ तथा चक्रे च तेस्तस्याभवदाजा पराङ्मुखः । तत्राप्यभिमुखीभूय स नत्वेवं व्यजिज्ञपत् ॥१०४॥ मयामुक्ताऽस्ति या राजन मञ्जूपा सा निरूप्यताम्। गृहीत्वा तद्गतं वस्तु पश्चात् कुर्याद्यथोचितम् ॥१०॥
SR No.010541
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorKanchanvijay
PublisherKanchanvijay
Publication Year1940
Total Pages381
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy