________________
इति चिन्ताविषण्णास्यं पतिं दृष्ट्वा सनर्मवाक् । उवाचैवं पुना राज्ञी तद्भावाविदुरा सका ॥३९ ।। नाथ ! त्वं वृद्धभावेन लज्जसे यदि सर्वथा । ततोऽहं कारयिष्यामि पटहोद्घोषणामिमाम् ॥४०॥ यः कश्चिदवनीनाथं जातयामं वदिष्यति । भविष्यति सकोऽवश्यमकालेऽपि यमातिथिः ॥४१॥ राजा प्रोवाच हे देवि ! किं ब्रवीष्यविवेकिवत् । जरैव मण्डनं यस्माद्भवेदस्मादृशां किल ॥४२॥ तहि श्याममुखा यूयं किमित्युक्त तथा पुनः। स तस्याः कथयामास स्वस्य वैराग्यकारणम् ॥४३॥ ततश्च तनयं राज्ये संस्थाप्य प्रियया सह । तापसीभूय राजाऽसौ वनवासमशिश्रियत् ॥४४॥ गूढगर्भा तु सा राज्ञी प्रपन्ना तापसव्रतम् । वर्द्धमाने तु गर्भस्या अवर्धिष्टोदरं क्रमातू ॥४५॥ किमेतदिति दृष्ट्वा च साऽऽचख्यौ तद्यथातथम् । पत्युः कुलपतेः सोऽपि व्रतदूषणभीरुकः ॥४६॥ तापसीमिः पाल्यमाना समये सुषुवेऽथ सा । सुतं देवकुमारामं शुभलक्षणशोभितम् ॥४७॥ तस्याश्चानुचिताहाराद्रोगोऽमृद्दारुणस्तनौ । अचिन्तयंश्च दुःखार्तास्ते तपोवनतापसाः ॥४८॥ गृहिणामपि दुष्पालो बालः स्याजननीमृते । तन्मातरि विपन्नायां कथं पाल्योऽयमर्भकः ? ॥४९॥ वणिगुज्जयिनीपुर्या वाणिज्येन परिभ्रमन । तदा तत्राज्ययौ देवधराख्यो दैवयोगतः ॥५०॥ सोऽथ तापसभक्तत्वात् तान् प्रणम्य तपस्विनः । दृष्ट्वा चिन्तातुरांचैतान पप्रच्छोद्वेगकारणम् ॥५१॥ १ अविदुराऽज्ञा. २ वृद्धम्.