SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ XXXXXXXXXXXRESERRRRRRRESS अन्येास्तत्पुरोधाने विशिष्टज्ञानसंयुतः । स्वयंप्रभो, नाम मुनिरागत्य समवासरत ॥१३॥ इतोऽश्ववाहनां कृत्वा परिश्रान्तः स भूपतिः ।,विश्रामार्थ तमुद्यानमाययौ नन्दनोपमम् ॥१४॥ क्षणमेकं स विश्रान्तस्तत्राशोकतरोस्तले । ददर्श मुनिवर्य तं ध्यानाचलकलेवरम् ॥१५॥ तं त्रिःप्रदक्षिणीकृत्य नमस्कृत्य च भक्तितः । निषद्य च यथास्थानं स शुश्रावेति देशनाम् ॥ १६ ॥ कषायाः कटवो वृक्षा दुर्यानं तत्प्रेसनकम् । फलं च पापकर्मेह परलोके च दुर्गतिः ॥१७॥ संसारोद्विग्नचित्तेन निर्वाणसुखमिच्छना । कषायाः परिहर्त्तव्यास्तदेतेऽनर्थकारणम् अथोचे पार्थिवः सत्यं महात्मन्निदमेव हि । परमेवं ममाख्याहि कति भेदा भवन्ति ते ॥१९॥ मुनि गौ कोप-मान-माया-लोभाभिधा इमे। चत्वारः स्युस्तथाऽमीषां भेदाः प्रत्येकशोऽप्यमी ॥ २०॥ आद्योऽनन्तानुवन्ध्यत्राप्रत्याख्यानो द्वितीयकः । प्रत्याख्यानस्तृतीयस्तु तुर्यः संज्वलनाभिधः ॥२१॥ निश्चलोऽचलरेखेव दारुणो दुःखदायकः । भवेत्तत्रादिमो राजन् ! कोपोऽनन्ताऽनुवन्धकः ॥ २२ ॥ पृथ्वीरेखासमोअत्याख्यानो नाम्ना द्वितीयकः । प्रत्याख्यानस्तृतीयस्तु रेणुरेखासमो मतः ॥२३॥ तुर्यः संज्वलनो नीररेखातुल्यः प्रकीर्तितः । एवं मानोऽयस्थिकाष्ठतिनिशस्तम्भसन्निभः ॥२४॥ माया वंशीमेपशृङ्गगवांमूत्रावलेहवत् । लोभः कृमिरागपङ्काञ्जनहारिद्ररागवत ॥ २५॥ १ तत्पुप्पम्. २ तिनिशो वृक्षविशेष:. SEEXXXERRRRRRRA
SR No.010541
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorKanchanvijay
PublisherKanchanvijay
Publication Year1940
Total Pages381
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy