SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ राज्ञः पार्श्वे ययौ सोऽथ स्वाभिप्रायं शशंस च। सोऽप्यूचेहमपि समं ग्रहीष्यामि व्रतं त्वया ॥५३२॥ धनदः स्माह गार्हस्थ्ये मम स्वामी भवानभूत् । भविष्यति यतित्वेऽपि संयोगोऽयं मनःप्रियः॥ ५३३ ॥ ततो राज्ञा सुतो राज्ये स्थापितः कनकप्रभः । धनदस्य सुतः श्रेष्ठिपदे चैव धनावहः ॥५३४ ॥ ततः सार्द्ध महीभर्ना पितृभ्यां भार्यया तथा । उपाददे परिव्रज्यां धनदो गुरुसन्निधौ ॥५३५ ॥ गृहीत्वा द्विविधां शिक्षां कृत्वा च विविधं तपः। मृत्वा सर्वेऽपि ते जग्मुः पुण्यात्मानः सुरालयम् ॥ ५३६ ॥ ततश्श्युत्वा मनुष्यत्वं प्राप्य श्रमणतां तथा । क्षेत्रे महाविदेहे ते संप्राप्ताः परमं पदम् ॥५३७ ॥ ॥इति मत्स्योदर (धनद) कथा ॥ धनदस्य कथामेतां श्रत्वा विद्याधराधिप! | धर्मो निरन्तरं कार्यस्त्वयेत्यचे मनिःसत ॥५३८॥ तच्छ्रुत्वाऽमिततेजाः स गुर्वाज्ञां शिरसा दधत्। उत्थाय नमति स्मांही भूयोऽपि मुनिवर्ययोः ॥ ५३९ ।। चारणश्रमणौ तौ च समुत्पत्य विहायसा । तपोमाहात्म्यसम्पन्नौ जग्मतुः स्थानमीप्सितम् ॥ ५४० ॥ नरखेचरराजौ श्रीविजयामिततेजसौ । गमयामासतुः कालं तावथो धर्मतत्परौ ॥ ५४१ ॥ तौ यात्रात्रितयं धन्यौ चक्रतुः प्रतिवत्सरम् । तत्र स्यात् शाश्वतं यात्राद्वयमेका वशाश्वती ॥५४२॥ चैत्रस्य विमले पक्षे यात्रैका शाश्वती भवेत् । द्वितीया चाश्विनीमासे प्रसिद्धाऽष्टाह्निकाऽभिधा॥ ५४३॥
SR No.010541
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorKanchanvijay
PublisherKanchanvijay
Publication Year1940
Total Pages381
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy