SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ शान्तिना चरित्रम् ॥३३॥ द्वितीयः प्रस्ताव स्वयमेतो शुभाहारैरुत्थाय प्रत्यलाभयत् । गतयोश्च तयोश्चिन्तां चक्रे धन्योऽहमित्यसौ ॥५२० ॥ निद्राक्षये च यामिन्यामन्यदाऽचिन्तयत्पुनः । अप्रत्यक्षफलेनेह कृतेन श्रेयसा हि किम् ? ॥५२१ ॥ अपरेधुर्मुनिद्वन्दं दृष्ट्वा मलमलीमसम् । स एवं चिन्तयामास धिगहो । मलिनाविमौ ॥५२२ ॥ यद्यते निर्मल वेपमकरिष्यन्महर्षयः । ततोऽभविष्यत् किं नाम जैनधर्मस्य दूषणम् ॥५२३ ॥ अथवा हा मया दुष्टं चिन्तितं मुनिपुङ्गवाः । भवन्त्येवंविधा यस्मात्संयमेनैव निर्मलाः ॥५२४ ॥ एवं च शुभभावेन शुभं कर्म समार्जयत् । सोऽशुभेनाशुभं कर्मार्जयति स्मान्तराऽन्तरा ॥५२५ ॥ आयुःक्षये विपद्याभूत्स देवो भुवनाधिपः । ततश्युत्वा समुत्पन्नः स त्वं धनदनामकः ॥५२६॥ कृत्वा कृत्वाऽन्तरा धर्मो यत्त्वया दूषितस्तदा। सुखानिदुःखमिश्राणि लब्धानीह ततः स्फुटम् ॥ ५२७॥ तच्छ्रुत्वा मूच्छितः पृथ्व्यां पपात धनदः क्षणम् । जातिस्मृत्या निजं पूर्वभवभावं ददर्श च ।। ५२८ ॥ उवाच च प्रभो! सत्यं यद् युष्माभिः प्ररूपितम् । ततो बन्धूननुज्ञाप्य ग्रहीष्याम्यनगारताम् ॥ ५२९ ॥ इत्युदित्वा गृहे गत्वा,पितरावेवमूचिवान । हे अंब ! तात ! मां दीक्षाकृते विसृजतं युवाम् ।। ५३० ॥ ताभ्यां निवार्यमाणोऽपि न यावद्विरराम सः । तावचावूचतुर्दीक्षामादास्यावस्त्वया सह ॥५३१ ॥ १ धर्मेण.
SR No.010541
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorKanchanvijay
PublisherKanchanvijay
Publication Year1940
Total Pages381
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy