SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ RRRRREXEEEE. भार्या वसुन्धरा तस्य महणाकश्च तत्सुतः । सोमश्री म तस्यापि बभूव सहचारिणी ॥५०६॥ अन्यदा रथमारुह्योद्यानिकायां ययावसौ । उद्याने मण्डपस्तत्र विस्तीर्णश्च विनिर्मितः ॥ ५०७॥ खाद्य-भोज्य-लेह्य-पेय-भेदैस्तत्र चतुर्विधम् । बुभुजे स वराहारं मित्रैः सह यदृच्छया ॥५०८ ॥ ततस्ताम्बूलमादाय पञ्चसौगन्धिकं वरम् । क्षणं दृष्टिकृतानन्दं प्रेक्ष्य प्रेक्षणकं तथा ॥५०९॥ बहु पादपसङ्कीर्ण फलपुष्पर्द्विबन्धुरम् । उद्यानमीक्षमाणोऽप्तौ ददशैकं महामुनिम् ॥५१० ॥ (युग्मम् ) स मित्रप्रेरितो गत्वा ववन्दे तं तपोधनम् । सोऽपि ध्यान विमुच्यास्मै धर्मलाभाशिष ददौ ॥ ५११ ॥ तद्धर्मदेशनां श्रुत्वा प्रतिबुद्धय स शुद्धधीः । सम्यक्त्वमूलं तत्पार्चे गृहिधर्ममुपाददे ॥५१२ ॥ पुनः साधुं नमस्कृत्य स गतो निजमन्दिरम् । द्रव्येण कारयामास जिनमन्दिरमुत्तमम् ॥५१३ ॥ पश्चाच्च चिन्तयामास बहुद्रव्यव्ययो मया । कृतो धर्मरसाधिक्यपराधीनतया कथम् ? ॥५१४ ॥ स एवं विगतोत्साहो भूत्वा कत्यपि वासरान् । ततो लोकानुरोधेनाकारयत्प्रतिमामपि ॥५१५॥ प्रतिष्ठा कारयामास तस्थाश्च श्वेतभिक्षुभिः । न्यवारयजीवमारिं ददौ दानं यथोचितम् ॥५१६ ॥ पुनर्दध्यावहो धर्मे बहुद्रव्यव्ययं व्यधाम् । उपार्जितधनात्तुर्यभाग एवात्र युज्यते ॥५१७ ॥ फलं भावि न वाऽस्येति सन्देहो मे प्रवर्तते । शास्त्रे च श्रूयते स्तोकव्ययस्यापि फलं महत् ।। ५१८॥ स एवं संशयानोऽपि चक्रे पूजादिसत्क्रियाम् । अन्येदुर्गृहमायातावपश्यच्च तपोधनौ ॥ ५१९ ॥
SR No.010541
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorKanchanvijay
PublisherKanchanvijay
Publication Year1940
Total Pages381
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy