________________
शान्तिनाथचरित्रम् ॥३४॥
द्वितीयः प्रस्तावः
देवा विद्याधराश्चैते द्वीपे नन्दीश्वराभिधे । यात्रे कुर्युनराः स्वस्वस्थानचैत्येपु समदात ॥ ५४४॥ तृतीयामपि तौ यात्रां चक्रतुः सीमपर्वते । बलर्षिकेवलोत्पत्तिस्थाने नाभेयमन्दिरे ॥५४५॥ बहून्यद्वसहस्राणि कृत्वा तौ राज्यमन्यदा । गत्वा मेरौ ववन्दाने सनातनजिनक्रमान् ॥५४६ ॥ नन्दनाख्ये वने तत्र चारणश्रमणावुभौ । विपुलमहामतिसंज्ञौ चोपविष्टावपश्यताम् नत्वा श्रुत्वा च तद्वयाख्यां पृष्टौ ताभ्यामिमौ मुनी। भगवन्तौ कियदायुरावयोरिति कथ्यताम् ॥ ५४८ ॥ पइविंशतिर्दिनान्यायुः शेषमस्तीति जल्पितौ । ताभ्यां तावाकुलीभूतौ पुनरेवं जजल्पतुः ॥ ५४९॥ विषयामिषगृध्राभ्यां नेयत्कालं कृतं व्रतम् । संप्रत्यल्पायुषावावां करिष्यावो हहा किमु ? ॥ ५५० ॥ मुनिभ्यां भणितावेतौ विनष्टं युवयोर्नु किम् । व्रतं गृह्णीतमद्यापि युवा स्वर्गापवर्गदम् ॥५५१ ॥ ततः स्वस्वपुरं प्राप्तौ सुतौ राज्ये निधाय तौ । पावे जगृहतुर्दीक्षामभिनन्दनसन्मुनेः ॥५५२॥ स्थितावनशनेनैतौ पादपोपगमेन च । सस्मार जनकस्यौजस्तदा श्रीविजयो मुनिः ॥ ५५३ ॥ ततश्च तपसाऽनेन भूयासमहमप्यहो । पित्रा सम इति व्यक्तं निदानमकरोदसौ ॥५५४ ॥ एवं कृतनिदानोऽसावन्योऽकृतनिदानकः । मृत्वा तौ प्राणते कल्पे समुत्पन्नौ महर्द्धिकौ ॥५५५ ॥ विमाने नन्दिकावर्ते स्वस्तिकावर्तके तथा । दिव्यचूलमणिचूलामिधानौ सुरसत्तमौ ॥५५६॥ (युग्मम्)
॥३४॥