________________
कुमारो विरहे तस्या गृहे प्राप्तोऽरति गतः। मित्रैश्च तदभिप्रायो महीभर्तनिवेदितः ॥४८ ॥ मन्त्र्येकः पार्थिवादिष्टो गत्वा शूरनृपान्तिके । कुमारार्थे ययाचे तां श्रीषेणां वरकन्यकाम् ॥ ४८१ ॥ परमानुग्रहं सोऽथ मन्यमानोऽतिगौरवम् । चक्रे यावदमात्यस्य तावत्सा बालिकाऽवदत् ॥४८२ ॥ यदि दास्यथ मां तस्मै यूयं तात ! तदा ध्रुवम् । आत्महत्यांकरिष्यामि तच्छ्रुत्वा विषसाद सः॥ ४८३ ॥ ऊचे च सचिवं तावत् यात यूयं नृपान्तिकम् । कन्यकामनुनीयेमां कथयिष्याम्यहं पुनः ॥४८४ ॥ मन्त्रीगत्वा तदाचख्यौराज्ञः शूरोऽपि कन्यकाम् । बभाण सातुश्रीषेणानेच्छति स्मैव तं पतिम् ।। ४८५ ॥ तेनाथ पार्थिवस्येदं कथितं पार्थिवोऽपि तत् । सुतस्याख्यत्सोऽपि गाढं बभूव मदनातुरः ॥४८६ ॥ अत्रान्तरे च संप्राप्तो धनदो राजसन्निधौ । पप्रच्छवं महाराज! यूयं चिन्तातुरा नु किम् ? ॥ ४८७ ॥ राजाऽपि तनयावस्थास्वरूपं पर्यकीर्तयत् । तच्छ्रुत्वा श्रेष्ठिरः स्माहालं विषादेन भूपते! ॥४८८ ॥ देवीचक्रेश्वरीदत्तमणेर्माहात्म्यतः क्षणात् । साधयिष्याम्यदः कार्यमित्युक्त्वा मणिमानयत् ॥ ४८९ ॥ आर्पयच्च कुमारस्याराधयामास सोऽपि तम् । धनदाख्यातविधिना तस्य तुष्टो मणिस्ततः ॥४९०॥ सा शूरनन्दनी तस्मिन्ननुरागं नृपात्मजे । दधौ तं च समीपस्थां सखी स्निग्धामजिज्ञपत् ॥४९१ ॥ साऽऽचख्यौतपितुः सोऽपि गत्वाऽशंसन्महीभुजः। राजाऽपि तनयस्याख्यत् ततःस्वस्थोबभूव सः॥४९२॥