________________
वणिक्पार्थात निजं वस्त्वादाय मातङ्गतोऽपि च । तयोः कृत्वोचितं चाभूद्धनदोधनदोपमः ॥ ४२६ ॥ पृष्टोऽथ भूभुजा भूयः स जगादात्मनः कथाम् । सत्यां यथाजवास्तव्यो देवाहं श्रेष्ठिनन्दनः ॥ ४२७॥ गाथा मयैका दीनारसहस्रेणात्मसात्कृता । ततो निष्कासितः पित्रा ततो देशान्तरं गतः ॥४२८॥ इत्यादि सकलां वार्ता कथयित्वाऽब्रवीन्नृपम् । देवाद्यापि प्रकाश्योऽहं नावश्यं कस्यचिद्यतः ॥ ४२९ ॥ मम वित्तकलत्रापहारकार्यपरोऽपि चेत् । सार्थवाह इहायाति ततो भव्यं भवेत्प्रभो! ॥४३०॥ सार्थेशो देवदत्तोऽपि तत्रान्येयुः समाययौ । सार्द्ध तिलकसुन्दर्या स आगाच नृपान्तिकम् ॥४३१॥ ढौकयित्वा रत्नजातमुपविष्टो महीभुजा । अयं मत्स्योदरप्रोक्तो वणिगित्युपलक्षितः ॥४३२॥ मत्स्योदरोऽपि तं दृष्ट्वा तथा तिलकसुन्दरीम् । जिज्ञासुस्तदभिप्राय गोपिताङ्गोऽभवत् तदा ॥ ४३३ ॥ आललापाथ भूपालः सार्थवाहं ससंभ्रमः । भद्र! त्वं कुत आयासी: का चेयं बालिका वरा ॥ ४३४ ॥ सोऽवोचत कटाहाख्यद्वीपादत्रागतोऽस्म्यहम् । इयं च जलधेरन्तीपे लब्धा मयैकका ॥४३५॥ सुवस्त्राहारताम्बूलालङ्कारैः सत्कृताऽपि हि । राजस्तवानुमत्यैव भवेन्मम गृहिण्यसो राजा प्रोवाच हे सुभ्र ! किं तेऽयं रोचते वरः । अथवा त्वामयं कामी बलादेव रिरंसते ॥४३७ ॥ साऽवादीकोऽस्य पापस्य गृहणीयादभिधामपि । गुणरत्ननिधिः सिन्धौ प्रक्षिप्तो येन मे पतिः॥ ४३८॥ अनेन प्रार्थिता स्वामिन्नकार्पमिदमुत्तरम् । यतो राजप्रदत्ताऽहं भविष्यामि प्रिया तव ॥४३९॥