SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ अयं स्थगीधरो राज्ञः किमु भद्र ! क्रमागतः । तेनापि कथितं तस्य तत् स्वरूपं यथातथम् ॥ ३९९ ॥ अत्रान्तरे च मातङ्गो गौरव्यस्तस्य भूपतेः । आगाद् गीतरतिर्नाम्ना सार्थवाहस्य सनिधौ ॥४०॥ ततो गातुं प्रवृत्तोऽसौ निजवृन्दसमन्वितः । रञ्जितः सार्थवाहोऽपि तदगीतकलयायया ॥४०१॥ दानेन तोषयित्वैनमूचे भो यदि मामकम् । कार्य साधयसि त्वं तत् द्रव्यं यच्छामि ते बहु ॥४०२॥ सोऽवदत्साधयिष्यामि सर्व कथय मे स्फुटम् । क्शे यस्य महीपालस्वतः किं मे सुदुष्करम् ॥ ४०३ ॥ सार्थवाहोचवीतहि त्वयैकान्ते महीपतिः । एवं वाच्यो यथा मत्स्योदरोऽयं मम बान्धवः ॥४०४॥ अङ्गीकृतेऽथ तत्कार्ये स तस्मै प्रीतमानसः। सङ्घाटांश्चतुरः स्वर्णेष्टिकानां प्रददौ सुधीः ॥४०५॥ ययौ च नृपतेः पार्थे सभासीनस्य तस्य तु । मातङ्गोऽपि समभ्येत्य पुरो गातुं प्रचक्रमे ॥४०६॥ तद्गीतरञ्जितो राजा स्थगीधरमवोचत । देहि ताम्बूलमेतस्मै गान्धर्विकवराय भोः ॥४०७॥ ताम्बूलं ददतस्तस्य लगित्वा कण्ठकन्दले। चिराद् दृष्टोऽसि हे भ्रातरिति जल्पन रुरोदसः॥ ४०८ ॥ किमेतदिति भूपेन पृष्टो मत्स्योदरः सुधीः । हृद्युपायं विचिन्त्योचे देवायं सत्यमूचिवान् ॥४०९॥ अस्मिंश्च नगरे पूर्व मातङ्गोऽभूत्पिताऽवयोः । महागायन इत्युचीपतेः प्रणयभाजनम् ॥४१०॥ तस्याभूतामुमे भार्ये तयोरावां सुतौ प्रभो ।। मनागनिष्टा मे माता तदनिष्टोऽप्यहं पितुः ॥४११ ॥ मुख्यया. EXXXXXXXXXXXXXXXXXXXXXXXX
SR No.010541
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorKanchanvijay
PublisherKanchanvijay
Publication Year1940
Total Pages381
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy