SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ द्वितीयः शान्तिना प्रस्तावः बचरित्रम् ॥२८॥ राजाऽपि-विस्मितमनास्तमानाय्यात्मसन्निधौ । पप्रच्छ किमिदं भद्राघटमानं तवाऽभवत् ॥ ३८६ ॥ अयि कोऽसि कथं या त्वं पतितोऽसि झपोदरे । इति सत्यं ममाख्याहि वर्तते कौतुकं महत् ।। ३८७॥ धनदोऽप्यवदत्तावद्वणिग्जातिमवेहि माम् । भग्ने याने फलहकं संप्राप्यागामिह प्रभो! ॥३८८ ॥ निरीक्ष्यमाणो नगरं मत्स्येन गिलितोऽस्म्यहम् । गृहीतः स तु कैवर्त ठरं चास्य दारितम् ॥ ३८९ ॥ दृष्टश्च तस्य मध्येऽहं ततथैमिः सविस्मयः। भवत्पार्श्व समानीतो राजनिति कथा मम ॥३९० ॥ स्वर्णक्षालितनीरेण स्नपितः सोऽथ भूभुजा । मत्स्योदराभिधानश्च स्थापितो निजसन्निधौ ॥३९१ ।। तत्प्रार्थितेन तेनासौ विदधे च स्थगीधरः । निनाय दिवसानेवं सस्वरूपमवेदयन् ॥३९२॥ सुदत्तः सार्थवाहोऽथ तस्य पूर्वापकारकृत् । वातप्रेरितपोतेन तत्रान्येधुः समाययौ ॥३९३ ॥ गृहीत्वा मामृतं सोऽपि प्रतीहारनिवेदितः । आययौ नृपतेः पार्श्व निषण्णश्च कृतानतिः ॥३९४ ॥ राजाऽपि वणिजस्तस्य प्रियालापं स्वयं व्यधात् । दापयामास ताम्बूलं स्थगीधरकरेण च ॥३९५ ॥ विज्ञाय सोऽथ तत्तस्मै ददौ भूत्वा मुखाग्रतः । स सुदत्तोऽपि धनदमुपलक्षयति स तम् ॥३९६ ॥ परं सोऽघटमानत्वात्किञ्चित्सन्देहतत्परः । भणितो मभुजा यत्तेऽर्द्धदानं भवतादिति ॥३९७ ॥ महाप्रसाद इत्युक्त्वा निजस्थानं गतोऽन्यदा। पप्रच्छ पुरवास्तव्यं पुरुष कश्चिदित्यसौ ॥३९८ ॥ १ मत्स्योदरे. ॥ २८ ॥
SR No.010541
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorKanchanvijay
PublisherKanchanvijay
Publication Year1940
Total Pages381
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy