________________
नरैश्वान्वेषयामास तं चिरं कैतवादसौ। पश्चादाश्वासयामास तत्प्रियां प्रियभाषणैः ॥३७३ ॥ अन्यस्मिंश्च दिने तेन सोचे तिलकसुन्दरी । संस्थितस्त्वत्पतिर्भद्रे ! तत्पत्नी मे भवानघे! ॥ ३७४ ॥ तच्छ्रुत्वा चिन्तयामास सा चैवं बुद्धिशालिनी । मत्पतिर्मेऽङ्गलुब्धेन नून व्यापादितोऽमुना ॥ ३७५ ॥ ममैष शीलविध्वंसं करिष्यति बलादपि । ततः कृत्वोत्तरं किश्चित्कालक्षेपोत्र युज्यते ॥३७६ ॥ विचिन्त्यैवमुवाचवं संप्राप्तस्य पुरं तव । अनुज्ञाता महीमा भविष्यामि गृहिण्यहम् . ॥३७७॥ हृष्टः सोऽप्यनुमेने तदिति ध्यायन् यथा नृपम् । तोषयित्वा स्वदानेन करिष्यामि समीहितम् ॥ ३७८॥ - इतः स धनदस्तेन प्रक्षिप्तो जलधेर्जले । पूर्वभग्नस्य पोतस्य लेभे खण्डं विधेर्वशात् ॥३७९ ॥ गाढं तदुरसाऽऽश्लिष्य क्षुभ्यमाणस्तरङ्गकैः । पञ्चभिर्वासरैः प्राप्तः स्वपुरासन्नकूलकम् ॥३८० ॥ हृष्टाशयो निजपुरं पश्यन्नूर्ध्वमुखो दृशा । गिलितो गुरुमत्स्येन फलकेन सहैव सः ॥३८१॥ दध्यौ च पतितो मत्स्यजठरे नरकोपमे । रे जीव ! दैवदोषेण गाथां भावयतां ततः ॥३८२ ॥ यद्वा पूर्वभवाचीर्णकर्मदोषेण केनचित् । पतत्यसौख्यं मय्येव च्छिद्रं जीर्णवृताविव ॥३८३ ॥ इति ध्यात्वा स ससार मणिमापन्निवारकम् । तत्प्रभावेन मत्स्योऽसौ ग्रहीतस्तत्र धीवरैः ॥३८४ ॥ स्फाटिते जठरे तस्य दृष्टोऽसौ तैः सविस्मयैः। प्रक्षालितश्च नीरेण कथितश्च महीपतेः ॥३८५॥ १ मृतः. २ धनदानेन.