________________
शान्तिनापचरित्रम् ॥२७॥
द्वितीयः प्रस्तावः
एवं कुर्विति तेनोक्तो विदधे सोऽपि तत्तथा। विसिष्मिये तु सार्थेशो दृष्ट्वा तिलकसुन्दरीम् ॥३५९ ॥ भूयोऽपि चामुना पृष्टः शशंस धनदोऽप्यदः । सार्थवाह ! वणिक् जात्या भरतक्षेत्रवास्यहम् ॥ ३६० ॥ चलितः कटाहद्वीपं प्रति यानेन सप्रियः। भग्नं च वारिधी यानं ततोत्रागां प्रियान्वितः ॥३६१॥ पतिता मत्प्रिया ह्यस्मिन् कूपे नीरेक्षणाकुला | अहमप्यपतं चास्याः स्नेहबद्धो भवे यथा ॥३६२ ।। जलान्तःपतितौ नावां तत्तीरे किन्तु भाग्यतः । तुष्टा ददौ च रत्नानि तत्र मे जलदेवता ॥३६३ ॥ कथितं च तयैवं यत् यानमत्र समेष्यति । तत्राधिरुह्य गच्छेस्त्वं निजस्थानं सुखेन भोः ॥३६४ ॥ कथितेयं निजा वार्ता सार्थवाह ! मया तव । त्वमप्यात्मकथां बेहि यतः सख्यं प्रवर्द्धते ॥३६५ ॥ सोऽवददेवदत्ताख्यो भरतादहमप्यहो । कटाहद्वीपमगम चलितश्च गृहं प्रति
॥३६६॥ तदेहि भद्र ! त्वमपि गच्छावः सममेव यत् ।आरोपय निजं वस्तु मम याने प्रियां तथा ॥३६७॥ धनदोऽप्यनवीदेवं कुरु सार्थपते ! यतः । पष्ठांशं ते प्रदास्यामि वस्तुनोऽस्य गृहं गतः ॥३६८॥ धनेन किमसारेण गौरव्योऽसि त्वमेव मे । तद्वस्त्वारोपितं याने सार्थेशेनेति जल्पता ॥३६९ ॥ मार्गेऽथागच्छतस्तस्य सार्थेशस्य दुरात्मनः । चचाल चित्तं ललनां तां विलोक्य धनं तथा ॥ ३७० ॥ रात्रौ पुरीपव्युत्सर्गनिमित्तं मञ्चिकागतः । प्रक्षिप्तः सार्थवाहेन धनदोऽथ महोदधौ ॥३७१ ॥ दूरं गतेन तेनोचे धनदोऽद्यापि नैति यत् । गतः शरीरचिन्तार्थ तन्नूनं, पतितोऽर्णवे ॥३७२ ॥
॥२७॥