________________
द्वितीयः प्रस्ताव:
शान्तिना
चरित्रम् ॥२६॥
पुरं चाकारि तेनेदं पातालपुरनामकम् । प्रवेशनिर्गमावेककूपेनैवास्य सुन्दर !
॥ ३३२॥ रक्षार्थ कृपकस्यापि द्वितीयं विहितं पुरम् । ततः प्रवहणैरत्र नानावस्तुसमागमः ॥ ३३३ ॥ एवं गच्छति कालेन राक्षसः कश्चिदन्यदा । कूपप्रवेशसोपानपति भक्त्वा समाययौ ॥ ३३४ ॥ मांसलुब्धः स दुष्टात्मा प्रवृत्तः खादितुं जनान् । कियद्भिश्च दिनैश्चके पुरमेतदमानुपम् ॥३३५॥ बहिः पुरस्य लोकोऽपि तेनारब्धो निपातितुम् । स चाधिरुह्य यानेषु ययावन्यत्र कुत्रचित् ॥३३६ ॥ एवं च विहिता तेन शून्येयं नगरद्वयी । एकैव रक्षिताऽहं तु परिणेतुं दुरात्मना ॥३३७॥ इतो दिनात्सप्तमेहन्यतीते तेन मे पुरः। इति प्रोचे यथा भद्रे ! प्रचण्डो राक्षसोऽस्म्यहम् ॥३३८॥ मानुपामिपलुब्धेन मयेहागत्य मारितः । नगरे निखिलो लोको रक्षिता वं तु कारणात् ॥३३९ ।। सप्तमे दिवसे लनं शुभग्रहनिरीक्षितम् । तत्र त्वां परिणेष्यामि करिष्यामि स्वगेहिनीम् ॥३४०॥ तदद्य सप्तमदिनं समयोऽयं तदागतेः । यावन्नायात्यसो तावत् याहि त्वं सुन्दराकृते! ॥३४१॥ धनदः स्माह मुग्धे! त्वं मा भैषीः शृणु संप्रति । हतः स्वपाप्मनवासौ मरिष्यति करेण मे ॥ ३४२॥ सोचे तर्हि च तन्मृत्युसमयं कथयामि ते । पूजाकाले स विद्याया मारणीयस्त्वया खलु ॥३४३॥ तस्मिंश्च समये नासावुचिष्ठति न जल्पति । अयं च खड्गो मत्तातसत्को ग्राह्यस्त्वया तदा ॥ ३४४ ॥ १ स्वापापेनैव.
॥२६॥