________________
SODE
दृष्ट्वैकवाददे सरोहिणी चौषधिमुत्तमाम् । दीर्वा क्षुरिकया जवां न्यधाद्रत्नानि तत्र च ॥ ३१८ ॥ सरोहिण्या महौषध्या रोहयित्वाऽथ तव्रणम् । पुरश्च गच्छन् पातालपुरमेकं ददर्श सः ॥ ३१९ ।। तत्रावलोकयामास भक्ष्यभोज्यसमाकुलाः । मन्दिराट्टाऽऽवलीश्चित्रा मानुषैः परिवर्जिताः ॥३२० ।। प्रदेशेऽन्यत्र सोद्राक्षीत् नरेन्द्रभवनं महत् । गवाक्षगोपुरप्रांशुप्राकारपरिशोभितम् ॥३२१ ॥ प्रविश्य कौतुकेनात्र गतः सप्तमभूमिकाम् । ददर्श बालिकामेकां रूपाजितसुराङ्गनाम् ॥३२२ ॥ तां दृष्टा विस्मयापन्नं ज्ञातुकामं च तत्कथाम् । वभाषे कन्यका त भोः कुतः स्थानावमागतः ॥ ३२३ ॥ इहागतस्य ते प्राणसंशयो भद्र ! वर्त्तते । तद् गच्छ शीघ्रमन्यत्र यावत्ते कुशलं किल ॥३२४॥ धनदोऽथाब्रवीत् सुभ्र ! मोद्वेगं कुरु शंस मे । किमिदं नगरं किं वा विजनं भवती च का ॥ ३२५ ॥ सा तस्य धैर्यरूपाभ्यां विस्मिता पुनरब्रवीत् । अस्ति चेत्कौतुकं तत्वं शृणु सुन्दर! कारणम् ॥ ३२६॥ इहास्ति भरते रम्यं नाम्ना श्रीतिलकं पुरम् । महेन्द्रराजो नाम्नाऽभूत्तत्र राजा पिता मम ॥३२७॥ अन्यदा विगृहीतस्यान्यभूपैस्तस्य सन्निधौ । आगत्य व्यन्तरः कश्चित् सस्नेहं तमभाषत ॥ ३२८॥ त्वं पूर्वभवमित्रं मे तदाख्याहि करोमि किम् ? । सोऽवदत् कुरु साहाय्यं शत्रून् मम विनाशय ॥ ३२९ ॥ व्यन्तरोऽप्यनवीनैते शक्या हन्तुं मया सखे ।। यतो मदधिकैरेतेऽधिष्ठिता व्यन्तरैः खलु ॥३३०॥ करोमि किन्तु साहाय्यमित्युक्त्वा तेन मत्पिता । सपौरः सपरीवार इहाऽऽनीतो झटित्यपि ॥ ३३१ ॥