________________
शान्तिनाथचरित्रम् ॥२५॥
द्वितीयः प्रस्तावः
तत्कर्त्तमुद्यतस्तैः स क्षिप्तः कूपे कृपोज्झितैः । हन्यते बन्धुरप्यर्थलुब्धैरन्यस्य का कथा ? ॥३०५॥ पर्णाश्चितायां तन्मध्ये मेखलायां पपात सः। नेपदप्यङ्गजा पीडा ततोऽभूत्तस्य भाग्यतः ॥ ३०६॥ गाथां तां चिन्तयन सोऽथ कूपपार्थान्यलोकयत् । दृष्टैकदेशे विवरं तत्राविक्षच कौतुकात् ॥३०७॥ चारुसोपानपत्याऽसौ गत्वा किश्चिदधस्ततः । ऋजुनैव पथा गच्छन् पश्यश्चित्राण्यनेकशः॥ ३०८ ॥ ददशैकं देवकुलं तस्य मध्ये प्रभावतीम् । तायारूढां चक्रपाणि देवी चक्रेश्वरी तथा ॥३०९॥ (युग्मम् ) नत्वा तां परया भल्या शीर्षे विरचिताञ्जलिः । एवं विज्ञापयामास धनदो वदतां वरः ॥३१०॥ . जय श्रीवृपभस्वामिजिनशासनदेवते! । दुष्टारिष्टहरे! स्तोतुः सर्वसम्पत्करे। जय ॥३११॥ दिष्ट्या कष्टादितेनाद्य हे देवि! त्वं मयेक्षिता । भवतां तावकीनौ तचरणौ शरणं मम ॥३१२॥ तद्भक्तिमुदिता सोचे सर्व भव्यं भविष्यति । अग्रे गतस्य ते वत्स ! मत्तोऽप्यर्थय किञ्चन ॥३१३ ॥ सोऽवदत् मयका देवि ! किं न प्राप्तं महीतले १ । दृष्टे त्वदर्शने पुण्यरहितानां सुदुर्लभे ॥३१४ ॥ ततो महाप्रभावानि पञ्च रत्नानि देवता । करे तस्यार्पयामास तत्प्रभावं शशंस च ॥३१५॥ एक सौभाग्यकरणं द्वितीयं श्रीनिकेतनम् । तृतीयं रोगहृत्सद्यश्चतुर्थ विषनाशनम् ॥३१६॥ इदं च पञ्चमं रत्नमापत्पर्यन्तकारकम् । इत्युक्त्वाऽन्तर्दधे देवी धनदोऽप्यग्रतो ययौ ॥३१७ ॥ १ पर्यन्तो नाशः.
॥ २५॥