SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ ZEEEEEEXXXXXXXXXXXXXXXXXXX नूनं सुवर्णद्वीपोऽयं यदियं ज्वलितानला । जातरूपमयी जाता सद्य एव वसुन्धरा ॥२९१॥ पातयामि ततः स्वर्णमितिध्यात्वाऽमुना कृताः। इष्टिकानां सुसङ्घाटाः स्वर्णीभूताश्च तेऽग्निना । २९२ ॥ भ्रमन्नन्येधुरदाक्षीद निकुञ्जे कुत्रचिगिरेः । रत्नजातमयं तचानिनाय स्वर्णसन्निधौ ॥२९३ ॥ एवं सुवर्णरत्नानां राशिस्तेन कृतो बहुः । कदल्यादिफलैः प्राणयात्रां चक्रे च सोऽन्वहम् ॥ २९४ ॥ सार्थवाहः सुदत्ताख्योऽन्यदा तद्देशमाययौ । याने जलेन्धनं तस्य त्रुटितं पूर्वसञ्चितम् ॥२९५ ॥ दृष्ट्वा तं द्वीपमेतेन प्रेषिता निजपूरुषाः । जलेन्धनकृते तत्र ददृशुर्धनदं च ते ॥२९६ ॥ कस्त्वं मोरित्यपृच्छंथावोचद् वनचरोऽस्मि सः । तैरुक्तस्तहि पानीयस्थानं किमपि दर्शय ॥ २९७ ॥ तेनासौदर्शितस्तेषां कूपस्तेऽपि तदन्तिके । ददृशुस्तत्सुपर्णादि पुरा यत्तेन सश्चितम् ॥२९८ ॥ कस्येदमित्यपृच्छंश्च धनदं सोऽप्युवाच तान् । मामकीनमिदं वितं स्थानं नयति यस्त्वदः ॥ २९९ ॥ यच्छामि तस्य तुर्याशमित्युक्ते सार्थपोऽपि सः। तत्रागाद्धनदस्तस्य प्रणामाद्यौचिति व्यधात् ॥ ३००। (युग्म सार्थवाहस्तमालिङ्ग्य पृष्ट्वा च कुशलादिकम् । तज्जातरूपरत्नानां नयनं प्रतिपन्नवान् ॥३०१ ॥ प्रापय्य भृत्यकैस्तान्यक्षप्सीत्प्रवहणे निजे । गणयित्सा धनदोऽपि तानि तेषां समार्पयत् ॥३०२॥ दृष्ट्वा बहु धनं तच्च सार्थेशश्चलिताशयः । आदिदेश निजनरान कूपेऽसौ क्षिप्यतामिति ॥३०३ ॥ तैस्ततोधनदोऽमाणिकर्षभोः कूपकाजलम् । वयं सम्यग्न जानीमः त्वं च तत्कृतपूर्व्यसि ॥ ३०४ ॥
SR No.010541
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorKanchanvijay
PublisherKanchanvijay
Publication Year1940
Total Pages381
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy